अनल्पोपादानं चास्यासंशयमत्राऽसौ मणिवरस्तिष्ठितीति कृताध्यवसायोऽन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत्
तत्र चोपविष्टेष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसंगांतरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह
दानपते जानीम एव वयं यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमंतकं रत्नं भवतः तदश्षोराष्ट्रोपकरकं भवत्सकाशो! तिष्ठति तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रो ऽस्मानाशंकितवांश्तदस्मत्प्रीतये दर्शयस्वेत्यभिधाय जोषं स्थिते भगवति वासुदेवे सरत्नस्सोचिंतयत्
किमत्रानुष्ठेयमन्यथा चेद्ब्रवीम्यहं तत्केवलांबरतिरोधानमन्विष्यंतो रत्नमेते द्र क्ष्यंति अतिविरोधो न क्षम इति संचिंत्य तमखिलजगत्कारणभूतं नारायणमाहक्रूरः
भगवन्ममैतत्स्यमंतकरत्नं शतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावंतं कालमधारयम्
तस्य च धारणश्क्लोए!नाहमश्षोओ!पभोगेष्वसंगिमानसो न वेद्मि स्वसुखकलामपि
एतावन्मात्रमप्यश्षोराष्ट्रोपकारी धारयितुं न शक्नोति भवान्मन्यत इत्यात्मना न चोदितवान्
तदिदं स्यमंतकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम्
ततः स्वोदरवस्त्रनिगोपितमतिलघुकनकसमुद्गकगतं प्रकटीकृतवान्
ततश्च निष्क्राम्य स्यमंतकमणिं तस्मिन्यदुकुलसमाजे मुमोच
मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम्
अथाहाक्रुरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति
तमालोक्य सर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयंत
तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यस्समन्विच्छित इति कृतस्पृहोऽभूत्
ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयांचकार
बलसत्यावलोकनात्कृष्णोप्यात्मानं गोचक्रांतरावस्थितमिव मेने
सकलयादवसमक्षं चाक्रूरमाह
एतद्धि मणिरत्नमात्मसंशोधनाय एतेषां यदूनां मया दर्शितम् एतच्च मम बलभद्र स्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत्
एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाणमश्षोराष्ट्रस्योपकारकमशुचिना ध्रियमाणमाधारमेव हंति
अतोहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यभामा स्वीकरोति
आर्यबलभद्रेणापि मदिरापानाद्यश्षोओ!पभोगपरित्यागः कार्यः
तदलं यदुलोकोयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः
तद्भवानेव धारयितुं समर्थः
त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानश्षोराष्ट्रनिमित्तमेतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम्
ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यमानेनात्मकंठावसक्तेनादित्य इवांशुमाली चचार
इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताखिलेंद्रि यश्चाखिलपापमोक्षमवाप्नोति
तत्र चास्य युध्यमानस्यातिश्वद्धादत्तविशिष्टपात्रोपयुक्तान्नतोयादिना कृष्णस्य बलप्राणपुष्टिरभूत ।। ४-१३-
श्रीपराशर उवाच अनमित्रस्य पुत्रः शिनिर्नामाभवत् ॥ ४,१४.
तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ ४,१४.
तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः ॥ ४,१४.