वर्षत्रयांते च बभ्रूग्रसेनप्रभृतिभिर्यादवैर्न तद्र त्नं कृष्णेनाऽपहृतमिति कृतावगतिभिर्विदेहनगरीं गत्वा बलदेवस्संप्रत्याय्य द्वारकामानीतः
अक्रूरोप्युत्तममणिसमुद्भूतसुवर्णेन भगवद्ध्यानपरोऽनवरतं यज्ञानियाज
सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्महा भवतीत्येवंप्रकारं दीक्षाकवचं प्रविष्ट एव तस्थौ
द्विषष्टिवर्षाण्येवं तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभूत्
अथाक्रूरपक्षीयैर्भोजैश्शत्रुघ्ने सात्वतस्य प्रपौत्रे व्यापादिते भोजैस्सहाक्रूरो द्वारकामपहायापक्रान्तः
तदपक्रांतिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्र वा बभूवुः
अथ यादवा बलभद्रो ग्रसेनसमवेता मंत्रममंत्रयन्
भगवानुरगारिकेतनः किमिदमेकदैव प्रचुरोपद्र वागमनमेतदालोच्यतामित्युक्तेंधकनामा यदुवृद्धः प्राह
अस्याक्रूरस्य पितृश्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत्
काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश्च तत्क्षणाद्देवो ववर्ष
काशीराजपत्न्याश्च गर्भे कन्यारत्नं पूर्वमासीत्
सा च कन्या पूर्णेपि प्रसूतिकाले नैव निश्चक्राम
एवं च तस्य गर्भस्य द्वादशवर्षाण्यनिष्क्रामतो ययुः
काशीराजश्च तामात्मजां गर्भस्थामाह
पुत्रि कस्मान्न जायसे निष्क्रम्य तामास्यं ते द्र ष्टुमिच्छामि एतां च मातरं किमिति चिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार
तात यद्येकैकां गां दिनेदिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस्त्रिभिर्वर्षैरस्माद्गर्भात्ततोऽवश्यं निष्क्रमिष्यामीत्येद्वचनमाकर्ण्य राजा दिनेदिने ब्राह्मणाय गां प्रादात्
सापि तावता कालेन जाता
ततस्तस्याः पिता गांदिनीति नाम चकार
तां च गांदिनीं कन्यां श्वफल्कायोपकारिणे गृहमागतायार्घ्यभूतां प्रादात्
तस्यामयमक्रूरः श्वफल्काज्जज्ञे
तस्यैवंगुणमिथुनादुत्पत्तिः
तत्कथमस्मिन्नपक्रान्ते अत्र दुर्भिक्षमारिकाद्युपद्र वा न भविष्यंति
तदयमत्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यांधकस्यैतद्वचनमाकर्ण्य केशवोग्रसेनबलभद्र पुरोगमैर्यदुभिः कृतापराधतितिक्षुभिरभयं दत्त्वा श्वफल्कपुत्रः स्वपुरमानीतः
तत्र चागतमात्र एव तस्य स्यमंतकमणेः प्रभावादनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्र वोपशमा बभूवुः
कृष्णश्चिंतयामास
स्वल्पमेतत्कारणं यदयं गांदिन्यां श्वफल्केनाक्रूरो जनितः
सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्र वाप्रतिषेधकारी प्रभावः
तन्नूनमस्य सकाशो! स महामणिः स्यमंतकाख्यस्तिष्ठति
तस्य ह्येवंविधाः प्रभावाः श्रूयन्ते
अयमपि च यज्ञादनंतरमन्यत्क्रत्वंतरं तस्यानंतरमन्यद्यज्ञांतरं चाजस्रमविच्छिन्नं यजतीति