देवर्षिपूजकः सम्यक् पितृपिण्डोदकप्रदः । सत्कर्ता चातिथीनां यः स लोकानुत्तमान् व्रजेत्
हितं मितं प्रियं काले वश्यात्मा योऽभिभाषते । स याति लोकानाह्लादहेतुभूतान् नृपाक्षयान्
धीमान् ह्रीमान् क्षमायुक्तो ह्यास्तिको विनयान्वितः । विद्याभिजनवृद्धानां याति लोकाननुत्तमान्
अकालगर्जितादौ च पर्वस्वाशौचकादिषु । अनध्यायं बुधः कुर्यादुपरागादिके तथा
शमं नयति यः क्रुद्धान् सर्वबन्धुरमत्सरी । भीताश्वासनकृत् साधुः स्वर्गस्तस्याल्पकं फलम्
वर्षातपादिषु च्छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत्
नोर्ध्वं न तिर्यग्दूरं वा न पश्यन् पर्यटेद्बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन्
दोषहेतूनशेषांश्च वश्यात्मा यो निरस्यति । तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते
सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः । पापेऽप्यपापः परुषे ह्यभिधत्ते प्रियाणि यः । मैत्रीद्रवान्तःकरणस्तस्य मुक्तिः करे स्थिता
ये कामक्रोधलोभानां वीतरागा न गोचरे । सदाचारस्थितास्तेषामनुभावैर्धृता मही
तस्मात् सत्यं वदेत् प्राज्ञो यत् परप्रीतिकारणम् । सत्यं यत् परदुःखाय तत्र मौनपरो भवेत्
प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् । श्रेयस्तत्र हितं वाक्यं यद्यप्यत्यन्तमप्रियम्
प्राणिनामुपकाराय यथैवेह परत्र च । कर्मणा मनसा वाचा तदेव मतिमान् भजेत्
और्व उवाच (आभ्युदयिकश्राद्धस्य प्रेतकर्मणां श्राद्धादीनां च व्यवस्था) और्व उवाच सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते । जातकर्म तदा कुर्याच्छ्राद्धमभ्युदये च यत्
युग्मान् देवांश्च पित्र्यांश्च सम्यक् सव्यक्रमाद्द्विजान् । पूजयेद्भोजयेच्चैव तन्मना नान्यमानसः
दध्यक्षतैस्सबदरैः प्राङ्मुखोदङ्मुखोऽपि वा । देवतीर्थेन वै पिण्डान् दद्यात् कायेन वा नृप
नान्दीमुखः पितृगणस्तेन श्राद्धेन पार्थिव । प्रीयते तत्तु कर्त्तव्यं पुरुषैस्सर्ववृद्धिषु
कन्यापुत्रविवाहेषु प्रवेशेषु च वेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही
पितृपूजाक्रमः प्रोक्तो वृद्धावेष सनातनः । श्रूयतामवनीपाल प्रेतकर्मक्रियाविधिः
प्रेतदेहं शुभैः स्नानैस्स्नापितं स्रग्विभूषितम् । दग्ध्वा ग्रामाद्बहिः स्नात्वा सचैलस्सलिलाशये
यत्र तत्र स्थितायैतदमुकायेति वादिनः । दक्षिणाभिमुखा दद्युर्बान्धवास्सलिलाञ्जलीन्
प्रविष्टाश्च समं गोभिर्ग्रामं नक्षत्रदर्शने । कटकर्म ततः कुर्युर्भूमौ प्रस्तरशायिनः
दातव्योऽनुदिनं पिण्डः प्रेताय भुवि पार्थिव । दिवा च भक्तं भोक्तव्यममांसं मनुजर्षभ
दिनानि तानि चेच्छातः कर्त्तव्यं विप्रभोजनम् । प्रेता यान्ति तथा तृप्तिं बन्धुवर्गेण भुञ्जता
प्रथमेऽह्नि तृतीये च सप्तमे नवमे तथा । वस्त्रत्यागबहिस्स्नाने कृत्वा दद्यात्तिलोदकम्
चतुर्थेऽह्नि च कर्त्तव्यं तस्यास्थिचयनं नृप । तदूर्ध्वमङ्गसंस्पर्शः सपिण्डानामपीष्यते
योग्यास्सर्वक्रियाणां तु समानसलिलास्तथा । अनुलेपनपुष्पादिभोगादन्यत्र पार्थिव
शय्यासनोपभोगश्च सपिण्डानामपीष्यते । भस्मास्थिचयनादूर्ध्वं संयोगो न तु योषिताम्
बाले देशान्तरस्थे च पतिते च मुनौ मृते । सद्यश्शौचं तथेच्छातो जलाग्न्युद्बन्धनादिषु