न ह्यनुल्लंघ्य परपादपं तत्कृतनीडाश्रयिणो विहंगमा वध्यंते तदलममुनास्मत्पुरतः सौकप्रोरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्यैकांते बलदेवं वासुदेवः प्राह
मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान
सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः
तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति
तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विच्छितवान्
कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरणकर्मनिमित्तमचोदयत्
आह चैनं कृतवर्मा
नाऽहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत्
न हि कश्चिद्भगवता पादप्रहारपरिकंपितजगत्त्रयेण सुररिषुवनितावैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदितनयनावलोकनाखिलनिशातनेनातिगुरुवैरिवारणापकर्षणा-विकृतमहिमोरुसीरेम सीरिणा च सह सकलजगद्वंद्यानाममरवराणामपि योद्धुं समर्थः
किमुताहं तदन्यश्शरणमभिलष्यतामित्युक्तश्शतधनुराह
यद्यस्मत्परित्राणासमर्थं भवानात्मानमधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्य रक्ष्यतामिति
एकमुक्तः सोऽप्याह
यद्यंत्ययामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति
तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह
शतधनुरप्य तुलवेगां शतयोजनवाहिनीं वडवामारुह्यापक्रांतः
शैव्यसुग्रीवमेघपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवौ तमनुप्रयातौ
सा च वडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशो! प्राणानुत्ससर्ज
शतधनुरपि तां परित्यज्य पदातिरेवाद्र वत्
कृष्णोपि बलभद्र माह
तावदत्र स्यंदने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्घातयामि अत्र हि भूभागे दृष्टदोषास्सभया अतो नैतेश्वा भवतेमं भूमिभागमुल्लंघनीयाः
तथेत्युक्त्वा बलदेवो रथ एव तस्थौ
कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषश्शिरश्चिच्छेद
तच्छरीरांबरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमंतकमणिं नावाप पदा तदोपगम्य बलभद्र माह
वृथैवास्माभिः शतधनुर्घातितः न प्राप्तमखिलजगत्सारभूतं तन्महारत्नं स्यमंतकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह
धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षांतं तदयं पंथास्स्वेच्छया गम्यतां न मे द्वारकया न त्वया न चाश्षोबंधुभिः कार्य्यमलमलमेभिर्ममाग्रतोऽलीकशपथैरित्याक्षिप्य तत्कथां कथंचित्प्रसाद्यमानोपि न तस्थौ
स विदेहपुरीं प्रविवेश
जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास
स तत्रैव च तस्थौ
वासुदेवोऽपि द्वारकामाजगाम
यावच्च जनकराजगृहे बलभद्रो ऽवतस्थे तावद्धार्त्तराष्ट्रो दुर्योधनस्तत्सकाशाद्गदाशिक्षामशिक्षयत्