तयोश्च परस्परमुद्धतामर्षयोर्युद्धमेकविंशतिदिनान्यभवत्
ते च यदुसैनिकास्तत्र सप्ताष्टादिनानि तन्निष्क्रांतिमुदीक्षमाणास्तस्थुः
अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिलेऽत्यंतं नाशमवाप्तो भविष्यत्यन्यथा तस्य जीवतः कथमेतावंति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः
तद्बांधवाश्च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः
ततश्चास्य युद्ध्यमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टिरभूत्
इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीडिताखिलावयवस्य निराहारतया बलहानिरभूत्
निर्जितश्च भगवता जांबवान्प्रणिपत्य व्याजहार
सुरासुरगंधर्वयक्षराक्षसादिभिरप्यखिलैर्भवान्न जेतुं शक्यः किमुतावनिगोचरैरल्पवीर्यैर्नरैर्नरावयवभूतैश्च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैरवश्यं भवताऽस्मत्स्वामिना रामेणेव नारायणस्य सकलजगत्परायणस्यांश्नो भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे
प्रीत्यभिव्यंजितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार
स च प्रणिपत्य पुनरप्येनं प्रसाद्य जांबवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास
स्यमंतकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ
अच्युतोप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनाय जग्राह
सह जांबवत्या स द्वारकामाजगाम
भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णावलोकनात्तत्क्षणमेवातिपरिणतवयसोपि नवयौवनमिवाभवत्
दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश्च सभाजयामासुः
भगवानपि यथानुभूतमश्षॐ यादवसमाजे यथावदाचचक्षे
स्यमंतकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप
जांबवतीं चांतःपुरे निवेशयामास
सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसंत्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ
तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः
ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबंधं चक्रुः
अक्रूरकृतवर्मप्रमुखाश्च शतधन्वानमूचुः
अयमतीव दुरात्मा सत्राजितो योऽस्माभिर्भवता च प्रार्थितोऽप्यात्मजामस्मान् भवंतं चाविगणय्य कृष्णाय दत्तवान्
तदलमनेन जीवता घातयित्वैनं तन्महारत्नं स्यमंतकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबंधं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह
जतुगृहदग्धानां पांडुतनयानां विदितपरमार्थोऽपि भगवान् दुर्योधनप्रयत्नशैथिल्यकरणार्थं पार्थानुकूल्यकरणाय वारणावतं गतः
गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात्
पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यंदनमारूढा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेत्यक्षांतिमता शतधन्वनाऽस्मत्पिता व्यापादितः तच्च स्यमंतकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति
तदियं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह
तया चैवमुक्तः परितुष्टांतः करणोऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह
सत्ये सत्यं ममैवैषापहासना नाहमेतां तस्य दुरात्मनस्सहिष्ये