ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिंगलनयनमादित्यमद्रा क्षीत्
कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यस्सहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति
स च तदेव मणिरत्नमयाचत
स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्ण्यमारुरोह
सत्राजितोऽप्यमलमणिरत्नसनाथकंठतया सूर्य इव तेजोभिरश्षोदिगंतराण्युद्भासयन् द्वारकां विवेश
द्वारकावासी जनस्तु तमायांतमवेक्ष्य भगवंतमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांश्नो मानुषरूपधारिणं प्रणिपत्याह
भगवन् भवंतं द्र ष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच
भगवान्नायमादित्यः सत्राजितोऽयमादित्यदत्तस्यमंतकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति
तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः
स च तं स्यमंतकमणिमात्मनिवेशने चक्रे
प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान्स्त्रवति
तत्प्रभावाच्च सकलस्यैव राष्ट्रस्योपसर्गानावृष्टिव्यालाग्नितो यद्दुर्भिक्षादिभयं न भवति
अच्युतोऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे २७ गोत्रभेदभयाच्छक्तोपि न जहार
सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्र त्नमदात्
तच्च शुचिना ध्रियमाणमश्षोमेव सुवर्णस्रवादिकं गुणजातमुत्पादयति अन्यथा धारयंतमेव हंतीत्यजानन्नसावपि प्रसेनस्तेन कंठसक्तेन स्यमंतकेनाश्वमारुह्याटव्यां मृगयामगच्छत्
तत्र च सिंहाद्वधमवाप
साश्वं च तं निहत्य सिंहोप्यमलमणिरत्नमास्याग्रेणादाय गंतुमभ्युद्यतः ऋक्षाधिपतिना जांबवता दृष्टो घातितश्च
जांबवानप्यमलमणिरत्नमादाय स्वबिलं प्रविवेश
सुकुमारसंज्ञाय बालकाय च क्रीडनकमकरोत्
अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तनान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्णाकर्ण्याऽकथयत्
विदितलोकापवादवृत्तांतश्च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार
ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम्
अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धः सिंहपदमनुससार
ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्च तद्र त्नगौरवादृक्षस्यापि पदान्यनुययौ
गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश
अन्तः प्रविष्टश्च धात्र्! याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव
अत्र श्लोकः। सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः । सुकुमारकमा रोदीस्तव ह्येष स्यमंतकः
इत्याकर्ण्योपलब्धस्यमंतकॐतःप्रविष्टः कुमारक्रीडनकीकृतं च धात्र्! या हस्ते तेजोभिर्जाज्वल्यमानं स्यमंतकं ददर्श
तं च स्यमंतकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार
तदार्त्तरवश्रवणानंतरं चामर्षपूर्णहृदयः स जांबवानाजगाम