क्रथस्य स्नषापुत्रस्यकुन्तिरभवत् ॥ ४,१२.
कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश्च व्योमः तस्यापि जीमूतः ततश्च विकृतिः ततश्च भीभरथः तस्मान्नवरथः तस्यापि दशरथः ततश्च शकुनिः तत्तनयः करंभिः करंभेर्देवरातोऽभवत् ॥ ४,१२.
तस्माद्देवक्षत्रः तस्यापि मधुः मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत् ॥ ४,१२.
ततश्चांशुस्तस्माच्च सत्वतः ॥ ४,१२.
सत्वतादेते सात्वताः ॥ ४,१२.
इत्येतां ज्यामघस्य संततिं सम्यक्छ्रद्धासमन्वितः श्रुत्वा पुमान्मैत्रेय स्वपापैः प्रमुच्यते ॥ ४,१२.
श्रीपराशर उवाच । भजनभजमानदिव्यांधकदेवावृधमहाभोजवृष्णिसंज्ञास्सत्वतस्य पुत्रा बभूवुः
भजमानस्य निमिकृकणवृष्णयस्तथान्ये द्वैमात्राः शतजित्सहस्रजिदयुतजित्संज्ञास्त्रयः
देवावृधस्यापि बभ्रुः पुत्रोऽभवत्
तयोश्चायं श्लोको गीयते
यथैव शृणुमो दूरात्संपश्यामस्तथांतिकात् । बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधस्समः
पुरुषाः षट् च षष्टिश्च सहस्राणि तथाऽष्ट ये । तेऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि
महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्तिकावरपुरनिवासिनो मार्त्तिकावरा बभूवुः
वृष्णे सुमित्रो युधाजिच्च पुत्रावभूताम्
ततश्चानमित्रः तथानमित्रान्निघ्नः
निघ्नस्य प्रसेन सत्राजितौ
तस्य च सत्राजितो भगवानादित्यः सखाऽभवत्
एकदा त्वंभोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्थौ
ततस्त्वस्पष्टमूर्त्तिधरं चैनमालोक्य सत्राजित्सूर्यमाह
यथैव व्योम्नि वह्निपिंडोपमं त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किंचिन्न प्रसादीकृतं विश्षोमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकंठादुन्मुच्य स्यमंतकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम्
ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिंगलनयनमादित्यमद्रा क्षीत्
कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यस्सहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति
स च तदेव मणिरत्नमयाचत
स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्ण्यमारुरोह
सत्राजितोऽप्यमलमणिरत्नसनाथकंठतया सूर्य इव तेजोभिरश्षोदिगंतराण्युद्भासयन् द्वारकां विवेश
द्वारकावासी जनस्तु तमायांतमवेक्ष्य भगवंतमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांश्नो मानुषरूपधारिणं प्रणिपत्याह
भगवन् भवंतं द्र ष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच
भगवान्नायमादित्यः सत्राजितोऽयमादित्यदत्तस्यमंतकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति
तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः
स च तं स्यमंतकमणिमात्मनिवेशने चक्रे