तस्यापि रुक्मकवचस्ततः परवृत् ॥ ४,१२.
तस्य परावृतो रुक्मेषुपृथुज्यामघवलितहरितसंज्ञास्तस्य पञ्चात्मजा बभूवुः ॥ ४,१२.
तस्माद्यापि ज्यामघस्य श्लोको गीयते ॥ ४,१२.
भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः । तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ॥ ४,१२.
अपुत्रा तस्य सा पत्नी शैव्या नाम तथाप्यसौ । अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत ॥ ४,१२.
स त्वेकदा प्रभूतरथतुरगगजसंमर्दातिदारुणे महाहवे युद्ध्यमानःच सकलमेवारिचक्रमजयत् ॥ ४,१२.
तच्चारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रतिविद्रुतम् ॥ ४,१२.
तस्मिंश्च विद्रुतेतित्रासलोलायतलोचनयुगलं त्राहित्राहि मां तातांब भ्रतरित्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥ ४,१२.
तद्दर्शनाच्च तस्यामनुरागनुगतान्तरात्मा स नृपोऽचिन्तयत् ॥ ४,१२.
साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिनापत्यकारणं कन्यारत्नमुपपादितम् ॥ ४,१२.
तदेतत्समुद्वहामीति ॥ ४,१२.
अथ वैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥ ४,१२.
तयैव देव्याशैव्ययाहमनुज्ञातःसमुद्वहामीति ॥ ४,१२.
अथैनां रथमारोप्य स्वनगरमगच्छत् ॥ ४,१२.
विजयिनं च राजानमशेषपौरभृत्वयरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठनद्वारमागता ॥ ४,१२.
सा चावलोक्य राज्ञः सव्यपार्शववर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥ ४,१२.
अतिचपलचित्तात्र स्यन्दने केयमारोपितेति ॥ ४,१२.
असावप्यनालोचितोत्तरवचनोतिभयात्तामाह स्नुषा ममेयमिति ॥ ४,१२.
अथैनं शैव्योवाच ॥ ४,१२.
नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत्तव । स्नुषासंबन्धता ह्योषा कतमेन सुतेन ते ॥ ४,१२.
श्रीपराशर उवाच इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तापरिहारार्थमिदमवनीपतिराह ॥ ४,१२.
यस्ते जनिष्यत्यात्मजस्तस्येयमनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह ॥ ४,१२.
प्रविवेश च राज्ञा सहाधिष्ठानम् ॥ ४,१२.
अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मलाभगुणाद्वयसः परिणाममुपगतापि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ॥ ४,१२.
कालेन च कुमारमजीजनत् ॥ ४,१२.
तस्य च विदर्भ इति पिता नाम चक्रे ॥ ४,१२.
स च तां स्नुषामुपयेमे ॥ ४,१२.
तस्यां चासौक्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥ ४,१२.
पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवान्भविष्यतीति ॥ ४,१२.
रोमपादाद्बभ्रुः बभ्रोर्धृतिर्ः धृतेः कैशिकः कैशिकस्यापि चेदिः पुत्रोऽभवत्यस्य संततौ चैद्या भूपालाः ॥ ४,१२.