शतक्रतुरपीन्द्रत्वं तकार । स्वर्याते च रजौ नारदर्षिचोदिता राजसूताः शतक्रतुमात्मपितृपुत्रमाचारादू राज्यं याचितवन्तः ।। ४-९-
अप्रदाने चावजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रः । ततश्व बहुतिथे काले व्यतीते बृहस्पतिमेकान्ते दृष्ट्वापह्टतत्रैलोक्ययज्ञभागः शतक्रतुराह ।। ४-९-
वदरीफलमात्रमप्यर्हसि मम आप्यायनाय पुरो डाशखणडं दातुमित्युक्तो बृहस्पतिरूचे, --यद्यवं पूर्वमेव त्वयाहं चोदितः स्यां, तन्मया त्वदर्थं किमकर्त्तव्यमिति ।। ४-९-
स्वल्पैरेवाहोभिस्त्वां निजं पदं प्रापयिष्यामि इत्यभिधाय तेषामनु दिनाभिचारिकं बुद्धिमोहाय शक्रस्य च तेजोवृद्धये जुहाव । ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्रिषो धर्म्मत्यागिनो वेदवादपराङूमुखा बभूवुः ततश्व तानपेतधर्म्मा चारान् इन्द्रो जघान पुरोहिताप्यायिततेजाश्व त्रिदिवमाक्रामत् । एतदिन्द्रस्य स्वपदच्यवनारोहणां श्रुत्वा पुरुषः स्वपदभ्रशं दौरात्म्यं वा न चाप्नोति । रम्भस्त्वनपत्योऽभवत् । क्षत्रवृद्धसुतः प्रतिक्षत्त्रः, ततूपुत्रः सञ्जयः, ततश्व विजयः, तस्माज्व यज्ञकृत्, तस्य हर्षवर्द्धनः, हर्षवर्द्धनसुतः सहदेवः, तस्माददीनः, तस्य जयसेनः, ततश्व संहुतिः, तत पुत्रः, क्षंत्रधर्म्माः, इत्येते क्षत्रवृद्धस्य । अतो नहुषवंशं वक्ष्यामि इति ।। ४-९-
यति-ययाति-संयाति-अयाति-वियति-कृतिसंज्ञा नहुषस्य षट् पुत्रा महाबल पराक्रमा बभूवुः । यतिस्तु राज्यं नैच्छत् । ययातिस्तु भूबृदभवत्, उशनसश्व दुहितरं देवयानीं शर्म्मिष्ठाञ्च वार्षपर्व्वणीमुपयेमे ।। ४-१० -
काव्यशापाच्च अकालेनैव ययातिर्जरामवाप ।। ४-१०-
प्रसन्नशुक्रवचनाज्व जरां संकामयितुं ज्येष्ठं पुत्रं यदुमुवाच,--त्वन्माता महशापादियमकालेनैव जरा मामुपस्थिता । तानहं तस्यैवानुग्रहादू भवतः सञ्च रायाम्येकं वर्षसहस्त्रम्, त तृप्तोऽस्मि विषयेषु, त्वदूयसा विषयानह भोक्तुमिच्छामि ।। ४-१०-
नात्र भवता प्रत्याख्यानं कर्त्तव्यमित्युक्तः स नैच्छत् तां जरामादातुम । तञ्चपि पिता शशाप,--त्वत प्रसूतिर्न राज्यार्हा भविष्यतीति ।। ४-१०-
अनन्तरञ्च द्रह्यु तुर्वसुमनुञ्च पृथिवीपतिर्जरा ग्रहणार्थं स्वयौवनप्रदानाय च चोदयामास । तैरप्येककैश्येन प्रत्याख्यातस्तांश्व शशाप । अथ शम्मिष्ठातनय मशेषकनीयांसं पूरु तथैवाह, स वातिप्रवण मतिः प्रणम्य पितरं सबहुमानो महान् प्रसादोऽयमस्माकमित्युदारमभिधाय जरां प्रतिजग्राह । स्वकीयञ्च यौवनं पित्रे ददौ । सोऽपि च नवं यौवन मासाद्य धर्म्माविरोधेन यथाकामं यथाकालोपपन्न यथोतूसाहं विषयं चचार । सम्यक प्रजापालन मकरोत् ।। ४-१०-
विश्वाच्या सहोपभोगं भुक्त्वा कामानामन्त मवाप्स्यामीत्यनुदिनं तन्मनस्को बभूव ।। ४-१०-
अनुदिनञ्च उपभोगतश्व कामानतीव रम्यान् मेने ।। ४-१०-
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ।। ४-१०-
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्य्याप्तं तदित्यतितृषं त्यजेत् ।। ४-१०-
यदा न कुरुते भावं सर्व्वभूतेषु पापकम् । समदृष्टेस्तदा पुसः सर्व्वा एव सुखा दिशः ।। ४-१०-
या दुस्त्यजा दुर्म्मतिभिर्या न जीर्य्यति जीर्य्यतः । तां तृष्णां सन्त्यजन् प्राज्ञः सुखेनैवाभिपूर्य्यते ।। ४-१०-
जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्य्यन्ति जीर्य्यतः । धनाशा जीविताशा च जीर्य्यतोऽपि न जीर्य्यति ।। ४-१०-
पूर्णां वर्षसहस्त्रं मे विषयासक्तचेतसः । तथाप्यनुदिनं तृष्णा ममैतेष्वेव जायते ।। ४-१०-
तस्मदितामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् । निर्द्रन्द्रो निर्म्ममो भूत्वा चरिष्यामि मृगैः सह ।। ४-१०-
पूरोः सकाशादादाय जरां दत्त्वा च यौवनम् । राज्येऽभिषिच्य पूरुञ्च प्रययौ तपसे वनम् ।। ४-१०-
दिशि दक्षिणपूर्व्वंस्यां तुर्व्वसुं प्रत्यथादिशत् । प्रतीच्याञ्च तथा द्रु ह्यु दक्षिणापथतो यदुम् ।। ४-१०-
उदीच्याञ्च तथैवानुं कृत्वा मणडलिनो नृपान् । सर्व्वपृथ्वीपतिं पूरु सोऽभिषिच्य वनं ययौ ।। ४-१०-
श्रीपराशर उवाच क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥ ४,१२.
ततश्च स्वातिः ततो रुशङ्कुः रुशङ्कोश्चित्ररथः ॥ ४,१२.
तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत् ॥ ४,१२.
तस्य च शतसहस्रं पत्नी नामभवत् ॥ ४,१२.
दशलक्षसंख्याश्च पुत्राः ॥ ४,१२.
तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट्पुत्राः प्रधानाः ॥ ४,१२.
पृथुश्रवसश्च पुत्रः पृथुतमः ॥ ४,१२.
तस्मादुशना यो वाजिमेधानां शतमाजहार ॥ ४,१२.
तस्य च शितपुर्नाम पुत्रोऽभवत् ॥ ४,१२.