तस्य च वत्सस्य पुत्रोऽलर्कनामाभवत् यस्यायमद्यापि श्लोको गीयते
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा
तस्याप्यलर्कस्य सन्नतिनामाऽभवदात्मजः
सन्नतेः सुनीथः तस्यापि सुकेतुः तस्माच्च धर्मकेतुर्जज्ञे
ततश्च सत्यकेतुः तस्माद्विभुः तत्तयस्सुविभुः ततश्च सुकुमारस्तस्यापि दृष्टकेतुः ततश्च वीतिहोत्रः तस्माद्भार्गः भार्गस्य भार्गभूमिः ततश्चातुर्वर्ण्यप्रवृत्तिरित्येते काश्यपभूभृतः कथिताः
रजेस्तु संततिः श्रूयताम्
रजेः पञ्चपुत्रशतान्यतुलवीर्य्यसांराणयासन् । देवासुरसंग्रामारम्भे परस्पर वधेप्सवो देवाश्वासुराश्व ब्रह्माणां पप्रच्छुः ।। ४-९-
भगवन् ! अस्माकमत्र विरोधे कतरः पक्षो जेता भविष्यतीति । अथाह भगवान्--येषामर्थे रजिरात्तायुधो योतूस्यातीति । अथ दैत्यैरुपेत्य रजि रात्म साहाय्यदानायाभ्यर्थितः प्राह, --योतूस्येऽहं भवता मर्थे, यद्यहममर जयादू भवतामिन्द्रो बविष्यामि इति । आकर्ण्यैतत् तैरभिहितो, न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामः । अस्माकमिन्द्रः प्रह्लादस्तदर्थमयमुद्यम इत्युक्त्वा गतोष्वसुरेषु देवैरप्यसाववनीपतिरेवमेवोक्तः । तेनापि च तथैवोक्ते देवैरिन्द्रस्त्वं भविष्यसीति समन्वीप्सितम ।। ४-९-
रजिनापि देवसैन्यसहायेन अनेकैर्महास्त्रेस्तदशेषमसूरबलं निषूदितम् । अवजितारातिपक्षश्व इन्द्रो रजिचरणयुलमात्मशिरसा निपीडयाह,--भय त्राणदानादस्मत्पिता भवान्, अशीषलोकानामुत्तमो भवान्, यस्याहं पुत्रस्त्रिलो केन्द्रः ।। ४-९-
स चापि राजा प्रहस्याह,--एवमेवास्तु, अनतिक्रमणीया हि वैरिपक्षादप्यनेकविधचाटुवाक्यगर्भा प्रणतिः, इत्युक्ता स्वपुरमाजगाम ।। ४-९-
शतक्रतुरपीन्द्रत्वं तकार । स्वर्याते च रजौ नारदर्षिचोदिता राजसूताः शतक्रतुमात्मपितृपुत्रमाचारादू राज्यं याचितवन्तः ।। ४-९-
अप्रदाने चावजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रः । ततश्व बहुतिथे काले व्यतीते बृहस्पतिमेकान्ते दृष्ट्वापह्टतत्रैलोक्ययज्ञभागः शतक्रतुराह ।। ४-९-
वदरीफलमात्रमप्यर्हसि मम आप्यायनाय पुरो डाशखणडं दातुमित्युक्तो बृहस्पतिरूचे, --यद्यवं पूर्वमेव त्वयाहं चोदितः स्यां, तन्मया त्वदर्थं किमकर्त्तव्यमिति ।। ४-९-
स्वल्पैरेवाहोभिस्त्वां निजं पदं प्रापयिष्यामि इत्यभिधाय तेषामनु दिनाभिचारिकं बुद्धिमोहाय शक्रस्य च तेजोवृद्धये जुहाव । ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्रिषो धर्म्मत्यागिनो वेदवादपराङूमुखा बभूवुः ततश्व तानपेतधर्म्मा चारान् इन्द्रो जघान पुरोहिताप्यायिततेजाश्व त्रिदिवमाक्रामत् । एतदिन्द्रस्य स्वपदच्यवनारोहणां श्रुत्वा पुरुषः स्वपदभ्रशं दौरात्म्यं वा न चाप्नोति । रम्भस्त्वनपत्योऽभवत् । क्षत्रवृद्धसुतः प्रतिक्षत्त्रः, ततूपुत्रः सञ्जयः, ततश्व विजयः, तस्माज्व यज्ञकृत्, तस्य हर्षवर्द्धनः, हर्षवर्द्धनसुतः सहदेवः, तस्माददीनः, तस्य जयसेनः, ततश्व संहुतिः, तत पुत्रः, क्षंत्रधर्म्माः, इत्येते क्षत्रवृद्धस्य । अतो नहुषवंशं वक्ष्यामि इति ।। ४-९-
यति-ययाति-संयाति-अयाति-वियति-कृतिसंज्ञा नहुषस्य षट् पुत्रा महाबल पराक्रमा बभूवुः । यतिस्तु राज्यं नैच्छत् । ययातिस्तु भूबृदभवत्, उशनसश्व दुहितरं देवयानीं शर्म्मिष्ठाञ्च वार्षपर्व्वणीमुपयेमे ।। ४-१० -
काव्यशापाच्च अकालेनैव ययातिर्जरामवाप ।। ४-१०-
प्रसन्नशुक्रवचनाज्व जरां संकामयितुं ज्येष्ठं पुत्रं यदुमुवाच,--त्वन्माता महशापादियमकालेनैव जरा मामुपस्थिता । तानहं तस्यैवानुग्रहादू भवतः सञ्च रायाम्येकं वर्षसहस्त्रम्, त तृप्तोऽस्मि विषयेषु, त्वदूयसा विषयानह भोक्तुमिच्छामि ।। ४-१०-
नात्र भवता प्रत्याख्यानं कर्त्तव्यमित्युक्तः स नैच्छत् तां जरामादातुम । तञ्चपि पिता शशाप,--त्वत प्रसूतिर्न राज्यार्हा भविष्यतीति ।। ४-१०-
अनन्तरञ्च द्रह्यु तुर्वसुमनुञ्च पृथिवीपतिर्जरा ग्रहणार्थं स्वयौवनप्रदानाय च चोदयामास । तैरप्येककैश्येन प्रत्याख्यातस्तांश्व शशाप । अथ शम्मिष्ठातनय मशेषकनीयांसं पूरु तथैवाह, स वातिप्रवण मतिः प्रणम्य पितरं सबहुमानो महान् प्रसादोऽयमस्माकमित्युदारमभिधाय जरां प्रतिजग्राह । स्वकीयञ्च यौवनं पित्रे ददौ । सोऽपि च नवं यौवन मासाद्य धर्म्माविरोधेन यथाकामं यथाकालोपपन्न यथोतूसाहं विषयं चचार । सम्यक प्रजापालन मकरोत् ।। ४-१०-
विश्वाच्या सहोपभोगं भुक्त्वा कामानामन्त मवाप्स्यामीत्यनुदिनं तन्मनस्को बभूव ।। ४-१०-
अनुदिनञ्च उपभोगतश्व कामानतीव रम्यान् मेने ।। ४-१०-
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ।। ४-१०-
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्य्याप्तं तदित्यतितृषं त्यजेत् ।। ४-१०-
यदा न कुरुते भावं सर्व्वभूतेषु पापकम् । समदृष्टेस्तदा पुसः सर्व्वा एव सुखा दिशः ।। ४-१०-
या दुस्त्यजा दुर्म्मतिभिर्या न जीर्य्यति जीर्य्यतः । तां तृष्णां सन्त्यजन् प्राज्ञः सुखेनैवाभिपूर्य्यते ।। ४-१०-
जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्य्यन्ति जीर्य्यतः । धनाशा जीविताशा च जीर्य्यतोऽपि न जीर्य्यति ।। ४-१०-
पूर्णां वर्षसहस्त्रं मे विषयासक्तचेतसः । तथाप्यनुदिनं तृष्णा ममैतेष्वेव जायते ।। ४-१०-
तस्मदितामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् । निर्द्रन्द्रो निर्म्ममो भूत्वा चरिष्यामि मृगैः सह ।। ४-१०-
पूरोः सकाशादादाय जरां दत्त्वा च यौवनम् । राज्येऽभिषिच्य पूरुञ्च प्रययौ तपसे वनम् ।। ४-१०-
दिशि दक्षिणपूर्व्वंस्यां तुर्व्वसुं प्रत्यथादिशत् । प्रतीच्याञ्च तथा द्रु ह्यु दक्षिणापथतो यदुम् ।। ४-१०-