अमावसोर्भीमो नाम पुत्रोऽभवत् । भीमस्य काञ्चनः, काञ्चनात् सुहोत्रः, तस्यापि जह्नः । योऽसौ यज्ञवाटमखिलं गङ्गाम्भसा प्लावितमालोक्य क्रोधसंरक्तनयनो भगन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्या खिलामेव गङ्गामपिवत् ।। ४-७-
अथैनं देवर्षयः प्रसादयामासुः, दुहितृत्वे दुहितृत्वे चास्य गङ्गामनयन् । जह्नोश्व सुजह्नु र्नाम पुत्रोऽभवत् । तस्याप्यजकः, ततो बलाकाश्वः, तस्मात् कुशः, कुशस्य कुशाश्व-कुशनाभामूर्त्तरयामावसवश्वत्वारः पुत्रा बभूवुः ।। ४-७-
तेषां कुशाश्वः "शक्रतुल्यो मे पुत्रो भवे" दिति तपश्वचार । तञ्चोग्रत पसमवलोक्य मा भवत्वन्योऽ स्मत्तुल्यवीर्य्य" इत्यात्मनैवास्येन्द्रः पुत्रत्वम गच्छत ।। ४-७-
गाधिर्नाम स कौशिकोऽभवत् । गाधिश्व सत्यवतीं नाम कन्यामजनयत् । ताञ्च भार्गव ऋचीको वब्र ।। ४-७-
गाधिरप्यतिरोषणाय अतिवृद्धाय च ब्राह्मणाय दातुमनिच्छन्नेकतः श्यामकर्णानामिन्दुवर्च्चसामनिल रंहसामश्वानां सहस्त्रं कन्याशुल्कमयाचत ।। ४-७-
तेनापि ऋषिणा वरुणसकाशादुपलभ्य अश्वतीर्थो तूपन्नं तादृशाश्वसहस्त्र दत्तम् ।। ४-७-
ततस्तामृतचीकः कन्यामुपयेमे । ऋचीकश्वतस्या श्वरुमपत्यार्थं चकार तथा प्रसादितश्व तन्मात्रे क्षत्रवरपुत्रोतूपत्तये चरुमपरं साधयामास ।। ४-७-
एष चरुर्भवत्या अयमपरस्त्वन्मात्रा सम्यगुपयोज्य इत्युत्तवा वनं जगाम ।। ४-७-
उपयोगकाले च तां माता सत्यवतीमाह,--सर्व्व एवात्मपुत्रमतिगुणं समभिलषति, नात्म-जायाभ्रातृ गुणोष्वतीवादृतो भवतीत्यतोऽर्हसि मम त्वमात्मीयञ्चरु दातुं मदीयञ्चरुमात्मनोपयोक्तुम् ।। ४-७-
मतूपुत्रेणा हि सकलभूमणडलपरिपालनं कार्य्यम् ।। ४-७-
कियदूब्राह्मणास्य बलवीर्य्यसम्पदित्युक्ता सा स्वंचरु मात्रे दत्तवती ।। ४-७-
अथ वनादभ्यागत्य सत्यवतीमृषिरपश्यत् आह चैनाम,--अतिपापे! किमिदमकार्य्यं भवत्या कृतम्, अतिरौद्र ते वपुरालक्ष्यते, नूनं त्वया त्वन्मातृ सतूकृतश्वरुरुपयुक्तः न युक्तमैतत् ।। ४-७-
मया हि तत्र चरौ सकलैव शौर्य्य--बलसम्पदा रोपिता, त्वदीये चरावप्यखिलशान्ति ज्ञान-तितिक्षादिका ब्राह्मणगुणासम्पत् । एतज्व विपरीतं कुर्व्वत्यास्तवातिरौद्रास्त्रधारण-मारणनिष्ठः क्षत्रियाचारः पुत्रो भविष्यति, अस्याश्वोपशमरुचिर्ब्राह्मणाचारः ।। ४-७-
इत्याकर्ण्यैव सा तस्य पादौ जग्राह । प्रणिपत्य च एनमाह,--भगवन् ! मयैतदज्ञानादनुष्ठितं, प्रसादं मे कुरु, मैवंविधः पुत्रो भवतु, काममेवंविधः पौत्रो भवतु इत्युक्तो मुनिरप्याह--एवमस्तु इति ।। ४-७-
अनन्तरञ्च सा जमदग्निमजीजनत् । तन्माता च विश्वामित्रं जनयामास । सत्यवती च कौशिकी नाम नद्यभवत् । जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयो रेणुकामुपयेमे । तस्माञ्चाशेषक्षत्रवशहन्तारं परशुरामसज्ञ भगवतः सकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ।। ४-७-
श्रीपराशर उवाच । पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे
तस्यां च पंच पुत्रानुत्पादयामास
नहुषक्षत्रवृद्धरंभरजिसंज्ञास्तथैवानेनाः पंचमः पुत्रोऽभूत्
क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत्
काश्यपकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः
गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्त्तयिताऽभूत्
काश्यस्य काश्योः काशीराजः तस्माद्राष्ट्रः राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत्
धन्वंतरिस्तु दीर्घतपसः पुत्रोऽभवत्
स हि संसिद्धकार्यकरणस्सकलसंभूतिष्वशेषो ज्ञानविदा भगवता नारायणेन चातीत संभूतौ तस्मै वरो दत्तः
काशीराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति
तस्य च धन्वंतरेः पुत्रः केतुमान् केतुमतो भीमरथः तस्यापि दिवोदासः तस्यापि प्रतर्दनः
स च भद्रश्रेण्यवंशविनाशनादशेषशत्रवोनेन जिता इति शत्रुजिदभवत्
तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत्
सत्यपरतया ऋतध्वजसंज्ञामवाप
ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः