चतुष्पथं चैत्यतरुं श्मशानोपवनानि च । दुष्टस्त्रीसन्निकर्षं च वर्जयेन्निशि सर्वदा
पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद्बुधः । नैकश्शून्याटवीं गच्छेत् तथा शून्यगृहे वसेत्
केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा । स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत्
नानार्यानाश्रयेत् कांश्चिन्न जिह्मं रोचयेद्बुधः । उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः
अतीव जागरस्वप्ने तद्वत्स्नानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर
दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् । अवश्यायं च राजेन्द्र पुरोवातातपौ तथा
न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः । मुक्तकेशश्च नाचामेद्देवाद्यर्चां च वर्जयेत्
होमदेवार्चनाद्यासु क्रियास्वाचमने तथा । नैकवस्त्रः प्रवर्तेत द्विजवाचनिके जपे
नासमञ्जसशीलैस्तु सहासीत कथञ्चन । सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यते
विरोधं नोत्तमैर्गच्छेन्नाधमैश्च सदा बुधः । विवाहश्च विवादश्च तुल्यशीलैर्नृपेष्यते
नारभेत कलिं प्राज्ञः शुष्कवैरञ्च वर्जयेत् । अप्यल्पहानिः सोढव्या वैरेणार्थागमं त्यजेत्
स्नातो नाङ्गानि सम्मार्जेत् स्नानशाट्या न पाणिना । न च निर्धूनयेत् केशान् नाचामेच्चैव चोत्थितः
पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् । नोच्चासनं गुरोरग्रे भजेताविनयान्वितः
अपसव्यं न गच्छेच्च देवागारचतुष्पथान् । माङ्गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणम्
सोमार्काग्न्यम्बुवायूनां पूज्यानाञ्च न सम्मुखम् । कुर्यान्निष्ठीवविण्मूत्रसमुत्सर्गञ्च पण्डितः
तिष्ठन्न मूत्रयेत् तद्वत् पथिष्वपि न मूत्रयेत् । श्लैष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत्
श्लेष्मशिङ्घाणिकोत्सर्गो नान्नकाले प्रशस्यते । बलिमङ्गलजप्यादौ न होमे न महाजने
योषितो नावमन्येत न चासां विश्वसेद् बुधः । न चैवेर्ष्या र्भवेत्तासु न धिक्कुर्यात् कदाचन
माङ्गल्यपुष्परत्नाज्यपूज्याननभिवाद्य च । न निष्क्रमेद्गृहात् प्राज्ञः सदाचारपरो नरः
चतुष्पथान् नमस्कुर्यात् काले होमपरो भवेत् । दीनानभ्युद्धरेत् साधूनुपासीत बहुश्रुतान्
देवर्षिपूजकः सम्यक् पितृपिण्डोदकप्रदः । सत्कर्ता चातिथीनां यः स लोकानुत्तमान् व्रजेत्
हितं मितं प्रियं काले वश्यात्मा योऽभिभाषते । स याति लोकानाह्लादहेतुभूतान् नृपाक्षयान्
धीमान् ह्रीमान् क्षमायुक्तो ह्यास्तिको विनयान्वितः । विद्याभिजनवृद्धानां याति लोकाननुत्तमान्
अकालगर्जितादौ च पर्वस्वाशौचकादिषु । अनध्यायं बुधः कुर्यादुपरागादिके तथा
शमं नयति यः क्रुद्धान् सर्वबन्धुरमत्सरी । भीताश्वासनकृत् साधुः स्वर्गस्तस्याल्पकं फलम्
वर्षातपादिषु च्छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत्
नोर्ध्वं न तिर्यग्दूरं वा न पश्यन् पर्यटेद्बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन्
दोषहेतूनशेषांश्च वश्यात्मा यो निरस्यति । तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते
सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः । पापेऽप्यपापः परुषे ह्यभिधत्ते प्रियाणि यः । मैत्रीद्रवान्तःकरणस्तस्य मुक्तिः करे स्थिता
ये कामक्रोधलोभानां वीतरागा न गोचरे । सदाचारस्थितास्तेषामनुभावैर्धृता मही