मयात्राग्निस्थाली निक्षिप्ता सा चाश्वत्थश्शमीगर्भोऽभूत्
तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणीं कृत्वा तदुत्पन्नाग्नेरुपास्तिं करिष्यामीति
एवमेव स्वपुरमभिगम्यारणिं चकार
तत्प्रमाणं चांगुलैः कुर्वन् गायत्रीमपठत्
पठतश्चाक्षरसंख्यान्येवांगुलान्यरण्यभवत्
तत्राग्निं निर्मथ्याग्नित्रयमाम्नायानुसारी भूत्वा जुहाव
उर्वशीसालोक्यं फलमभिसंधितवान्
तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गांधर्वलोकानवाप्योर्वश्या सहावियोगमवाप
एकोऽग्निरादावभवदेकेन त्वत्र मन्वंतरे त्रेधा प्रवर्तिताः
तस्याप्यायुर्धीमानमावसु-विश्वावसु-शतायुः-श्रुतायुः (अयुतायुः) संज्ञाः षड़भवन् पुत्राः ।। ४-७-
अमावसोर्भीमो नाम पुत्रोऽभवत् । भीमस्य काञ्चनः, काञ्चनात् सुहोत्रः, तस्यापि जह्नः । योऽसौ यज्ञवाटमखिलं गङ्गाम्भसा प्लावितमालोक्य क्रोधसंरक्तनयनो भगन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्या खिलामेव गङ्गामपिवत् ।। ४-७-
अथैनं देवर्षयः प्रसादयामासुः, दुहितृत्वे दुहितृत्वे चास्य गङ्गामनयन् । जह्नोश्व सुजह्नु र्नाम पुत्रोऽभवत् । तस्याप्यजकः, ततो बलाकाश्वः, तस्मात् कुशः, कुशस्य कुशाश्व-कुशनाभामूर्त्तरयामावसवश्वत्वारः पुत्रा बभूवुः ।। ४-७-
तेषां कुशाश्वः "शक्रतुल्यो मे पुत्रो भवे" दिति तपश्वचार । तञ्चोग्रत पसमवलोक्य मा भवत्वन्योऽ स्मत्तुल्यवीर्य्य" इत्यात्मनैवास्येन्द्रः पुत्रत्वम गच्छत ।। ४-७-
गाधिर्नाम स कौशिकोऽभवत् । गाधिश्व सत्यवतीं नाम कन्यामजनयत् । ताञ्च भार्गव ऋचीको वब्र ।। ४-७-
गाधिरप्यतिरोषणाय अतिवृद्धाय च ब्राह्मणाय दातुमनिच्छन्नेकतः श्यामकर्णानामिन्दुवर्च्चसामनिल रंहसामश्वानां सहस्त्रं कन्याशुल्कमयाचत ।। ४-७-
तेनापि ऋषिणा वरुणसकाशादुपलभ्य अश्वतीर्थो तूपन्नं तादृशाश्वसहस्त्र दत्तम् ।। ४-७-
ततस्तामृतचीकः कन्यामुपयेमे । ऋचीकश्वतस्या श्वरुमपत्यार्थं चकार तथा प्रसादितश्व तन्मात्रे क्षत्रवरपुत्रोतूपत्तये चरुमपरं साधयामास ।। ४-७-
एष चरुर्भवत्या अयमपरस्त्वन्मात्रा सम्यगुपयोज्य इत्युत्तवा वनं जगाम ।। ४-७-
उपयोगकाले च तां माता सत्यवतीमाह,--सर्व्व एवात्मपुत्रमतिगुणं समभिलषति, नात्म-जायाभ्रातृ गुणोष्वतीवादृतो भवतीत्यतोऽर्हसि मम त्वमात्मीयञ्चरु दातुं मदीयञ्चरुमात्मनोपयोक्तुम् ।। ४-७-
मतूपुत्रेणा हि सकलभूमणडलपरिपालनं कार्य्यम् ।। ४-७-
कियदूब्राह्मणास्य बलवीर्य्यसम्पदित्युक्ता सा स्वंचरु मात्रे दत्तवती ।। ४-७-
अथ वनादभ्यागत्य सत्यवतीमृषिरपश्यत् आह चैनाम,--अतिपापे! किमिदमकार्य्यं भवत्या कृतम्, अतिरौद्र ते वपुरालक्ष्यते, नूनं त्वया त्वन्मातृ सतूकृतश्वरुरुपयुक्तः न युक्तमैतत् ।। ४-७-
मया हि तत्र चरौ सकलैव शौर्य्य--बलसम्पदा रोपिता, त्वदीये चरावप्यखिलशान्ति ज्ञान-तितिक्षादिका ब्राह्मणगुणासम्पत् । एतज्व विपरीतं कुर्व्वत्यास्तवातिरौद्रास्त्रधारण-मारणनिष्ठः क्षत्रियाचारः पुत्रो भविष्यति, अस्याश्वोपशमरुचिर्ब्राह्मणाचारः ।। ४-७-
इत्याकर्ण्यैव सा तस्य पादौ जग्राह । प्रणिपत्य च एनमाह,--भगवन् ! मयैतदज्ञानादनुष्ठितं, प्रसादं मे कुरु, मैवंविधः पुत्रो भवतु, काममेवंविधः पौत्रो भवतु इत्युक्तो मुनिरप्याह--एवमस्तु इति ।। ४-७-
अनन्तरञ्च सा जमदग्निमजीजनत् । तन्माता च विश्वामित्रं जनयामास । सत्यवती च कौशिकी नाम नद्यभवत् । जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयो रेणुकामुपयेमे । तस्माञ्चाशेषक्षत्रवशहन्तारं परशुरामसज्ञ भगवतः सकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ।। ४-७-
श्रीपराशर उवाच । पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे
तस्यां च पंच पुत्रानुत्पादयामास
नहुषक्षत्रवृद्धरंभरजिसंज्ञास्तथैवानेनाः पंचमः पुत्रोऽभूत्
क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत्
काश्यपकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः