तदाकर्ण्य राजा मां नग्नं देवी वीक्ष्यतीति न ययौ
अथान्यमप्युरणकमादाय गंधर्वा ययुः
तस्याप्यपह्रियमाणस्याकर्ण्य शब्दमाकाशो! पुनरप्यनाथास्म्यहमभर्तृका कापुरुषा श्रयेत्यार्त्तराविणी बभूव
राजाप्यमर्षवशादंधकारमेतदिति खड्गमादाय दुष्टदुष्ट हतोसीति व्याहरन्नभ्यधावत्
तावच्च गंधर्वैरप्यतीवोज्ज्वला विद्युज्जनिता
तत्प्रभया चोर्वशी राजानमपगतांबरं दृष्ट्वापवृत्तसमया तत्क्षणादेवापक्रान्ता
परित्यज्य तावप्युरणकौ गंधर्वास्सुरलोकमुपगताः
राजापि च तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श
तां चापश्यन् व्यपगतांबर एवोन्मत्तरूपो बभ्राम
कुरुक्षेत्रे चांभोजसरस्यन्याभिश्चतसृभिरप्सरोभिस्समवेतामुर्वशीं ददर्श
ततश्चोन्मत्तरूपो जाये हे तिष्ठ मनसि घोरे तिष्ठ वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत्
महाराजालमनेनाविवेकचेष्टितेन
अंतर्वत्न्यहमब्दांते भवताऽत्रागंतव्यं कुमारस्ते भबिष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टस्स्वपुरं जगाम
तासां चाप्सरसामूर्वशी कथयामास
अयं स पुरुषोत्कृष्टो येनाहमेतावंतं कालमनुरागाकृष्टमानसा सहोषितेति
एवमुक्तास्ताश्चाप्सरस ऊचुः
साधुसाध्वस्य रूपमप्यनेन सहास्माकमपि सर्वकालमास्या भवेदिति
अब्दे च पूर्णे स राजा तत्राजगाम
कुमारं चायुषमस्मै चोर्वशी ददौ
दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पंच पुत्रोत्पत्तये गर्भमवाप
उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गंधर्वा वरदास्संवृत्ताः व्रियतां च वर इति
विजितसकलारातिरविहतेंद्रि यसामर्थ्यो बंधुमानमितबलकोशोऽस्मि नान्यदस्माकमुर्वशीसालोक्यात्प्राप्तव्यमस्तितदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गंधर्वा राज्ञेऽग्निस्थालीं ददुः
ऊचुश्चैनमग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वोर्वशी सलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः ततोऽवश्यमभिलषितमवाप्स्यतीत्युक्तस्तामग्निस्थालीमादाय जगाम
अंतरटव्यामचिंतयत् अहो मेऽतीव मूढता किमहमकरवम्
वह्निस्थाली मयैषानीता नोर्वशीति
अथैनामटव्यामेवाग्निस्थालीं तत्याज स्वपुरं च जगाम
व्यतीतेऽर्द्धरात्रे विनिद्रश्चाचिंतयत्
ममोर्वशीसालोक्यप्राप्त्यर्थमग्निस्थाली गंधर्वैर्दत्ता सा च मयाटव्यां परित्यक्ता
तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत्
शमीगर्भं चाश्वत्थमग्निस्थालीस्थाने दृष्ट्वाऽचिंतयत्