तदाख्यातमेवैतत् स च यथेलायामात्मजं पुरूरवसमुत्पादयामास
पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी यं सत्यवादिनमतिरूपस्विनं मनस्विनं मित्रावरुणशापान्मानुषे लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श
दृष्टमात्रे च तस्मिन्नपहाय मानमश्षोमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे
सोऽपि च तामतिशयितसकललोकस्त्रीकांतिसौकुमार्यलावण्यग-तिविलासहासादिगुणामवलोक्य तदायत्तचित्तवृत्तिर्बभूव
उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत्
राजा तु प्रागल्भ्यात्तामाह
सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदाऽनुरागमुद्वहेत्युक्ता लज्जावखंडितमुर्वशी तं प्राह
भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनरपि तामाह
आख्याहि मे समयमिति
अथ पृष्टा पुनरप्यब्रवीत्
शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम्
भवांश्च मया न नग्नो द्र ष्टव्यः
घृतमात्रं च ममाहार इति
एवमेवेति भूपतिरप्याह
तया सह स चावनिपतिरलकयां चैत्ररथादिवनेष्वमलपद्मखंडेषु मानसादिसरस्स्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्द्धमानप्रमोदोऽनयत्
उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्द्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार
विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगंधर्वाणां च नातिरमणीयोऽभवत्
ततश्चोर्वशी पुरूरवसोस्समयविद्विश्वावसुर्गंधर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार
तस्याकाशो! नीयमानस्योर्वशी शब्दमशृणोत्
एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति
तदाकर्ण्य राजा मां नग्नं देवी वीक्ष्यतीति न ययौ
अथान्यमप्युरणकमादाय गंधर्वा ययुः
तस्याप्यपह्रियमाणस्याकर्ण्य शब्दमाकाशो! पुनरप्यनाथास्म्यहमभर्तृका कापुरुषा श्रयेत्यार्त्तराविणी बभूव
राजाप्यमर्षवशादंधकारमेतदिति खड्गमादाय दुष्टदुष्ट हतोसीति व्याहरन्नभ्यधावत्
तावच्च गंधर्वैरप्यतीवोज्ज्वला विद्युज्जनिता
तत्प्रभया चोर्वशी राजानमपगतांबरं दृष्ट्वापवृत्तसमया तत्क्षणादेवापक्रान्ता
परित्यज्य तावप्युरणकौ गंधर्वास्सुरलोकमुपगताः
राजापि च तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श
तां चापश्यन् व्यपगतांबर एवोन्मत्तरूपो बभ्राम
कुरुक्षेत्रे चांभोजसरस्यन्याभिश्चतसृभिरप्सरोभिस्समवेतामुर्वशीं ददर्श