बृहस्पतिमिंदुं च तस्य कुमारस्यातिचारुतया साभिलाषौ दृष्ट्वा देवस्समुत्पन्नसंदेहास्तारां पप्रच्छुः
सत्यं कथयास्माकमिति सुभगे सोमस्याथ वा बृहस्पतेरयं पुत्र इति
एवं तैरुक्ता सा तारा ह्रिया किंचिन्नोवाच
बहुशोप्यभिहिता यदाऽसौ देवेभ्यो नाचचक्षे ततस्स कुमारस्तां शप्तुमुद्यतः प्राह
दुष्टेंव कस्मान्मम तातं नाख्यासि
अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि
यथा च नैवमद्याप्यतिमंथरवचनाभविष्यसीति
अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम्
कथय वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति
ततः प्रस्फुरदुच्छ्वासितामलकपोलकांतिर्भगवानुडुपतिः कुमारमालिंग्य साधु साधु वत्स प्राज्ञोसीतिबुध इति तस्य च नाम चक्रे
तदाख्यातमेवैतत् स च यथेलायामात्मजं पुरूरवसमुत्पादयामास
पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी यं सत्यवादिनमतिरूपस्विनं मनस्विनं मित्रावरुणशापान्मानुषे लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श
दृष्टमात्रे च तस्मिन्नपहाय मानमश्षोमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे
सोऽपि च तामतिशयितसकललोकस्त्रीकांतिसौकुमार्यलावण्यग-तिविलासहासादिगुणामवलोक्य तदायत्तचित्तवृत्तिर्बभूव
उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत्
राजा तु प्रागल्भ्यात्तामाह
सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदाऽनुरागमुद्वहेत्युक्ता लज्जावखंडितमुर्वशी तं प्राह
भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनरपि तामाह
आख्याहि मे समयमिति
अथ पृष्टा पुनरप्यब्रवीत्
शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम्
भवांश्च मया न नग्नो द्र ष्टव्यः
घृतमात्रं च ममाहार इति
एवमेवेति भूपतिरप्याह
तया सह स चावनिपतिरलकयां चैत्ररथादिवनेष्वमलपद्मखंडेषु मानसादिसरस्स्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्द्धमानप्रमोदोऽनयत्
उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्द्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार
विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगंधर्वाणां च नातिरमणीयोऽभवत्
ततश्चोर्वशी पुरूरवसोस्समयविद्विश्वावसुर्गंधर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार
तस्याकाशो! नीयमानस्योर्वशी शब्दमशृणोत्
एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति