अयं हि वंशोतिबलपराक्रमद्युतिशीलचेष्टवद्भिरतिगुणान्वितैर्नहुषययाति-कार्तवीर्यार्जुनादिभिर्भूपालैरलंकृतः तमहं कथयामि श्रूयताम्
अखिलजगत्स्रष्टुर्भगवतो नारायणस्य नाभिसरोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः
अत्रेस्सोमः
तं च भगवानब्जयोनिः अश्षोऔ!षधीद्विजनक्षत्राणामाधिपत्येऽभ्यषेचयत्
स च राजसूयमकरोत्
तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश
मदावलेपाच्च सकलदेवगुरोर्बृस्पतेस्तारां नाम पत्नीं जहार
बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानसकलैश्च देवर्षिभिर्याचमानोपि न मुमोच
तस्य चंद्र स्य च बृहस्पतेर्द्वेषादुशना पार्ष्णिग्राहोभूत्
अंगिरसश्च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः सहाय्यमकरोत्
यतश्चोशना ततो जंभकुंभाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः
बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽऽभवत्
एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत्
ततश्च समस्तशस्त्राण्यसुरेषु रुद्र पुरोगमा देवा देवेषु चाश्षोदानवा मुमुचुः
एवं देवासुराहवसंक्षोभक्षुब्धहृदयमश्षोमेव जगद्ब्रह्माणं शरणं जगाम
ततश्च भगवानब्जयोनिरप्युशनसं शंकरमसुरान्देवांश्च निवार्य बृहस्पतये तारामदापयत्
तां चांतःप्रसवामवलोक्य बृहस्पतिरप्याह
नैष मम क्षेत्रे भवत्याऽन्यस्य सुतो धार्यस्समुत्सृजैनमलमलमतिधार्ष्ट्येनेति
सा च तेनैवमुक्तातिपतिव्रता भर्तृवचनानंतरं तमिषीकास्तंबे गर्भमुत्ससर्ज
स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप
बृहस्पतिमिंदुं च तस्य कुमारस्यातिचारुतया साभिलाषौ दृष्ट्वा देवस्समुत्पन्नसंदेहास्तारां पप्रच्छुः
सत्यं कथयास्माकमिति सुभगे सोमस्याथ वा बृहस्पतेरयं पुत्र इति
एवं तैरुक्ता सा तारा ह्रिया किंचिन्नोवाच
बहुशोप्यभिहिता यदाऽसौ देवेभ्यो नाचचक्षे ततस्स कुमारस्तां शप्तुमुद्यतः प्राह
दुष्टेंव कस्मान्मम तातं नाख्यासि
अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि
यथा च नैवमद्याप्यतिमंथरवचनाभविष्यसीति
अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम्
कथय वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति
ततः प्रस्फुरदुच्छ्वासितामलकपोलकांतिर्भगवानुडुपतिः कुमारमालिंग्य साधु साधु वत्स प्राज्ञोसीतिबुध इति तस्य च नाम चक्रे