यज्ञसमाप्तौ च भागग्रहणायागतान् देवान् ऋत्विज ऊचुः, यजमानाय वरो दीयतामिति । देवै श्छन्दितो निमिराह ।। ४-५-
भगवन्तोऽखिलसंसारदूः खसङ्घातस्य च्छत्तोरः न ह्यतोवज्जगत्यन्यद दुः खमस्ति, यच्छरीरात्मनोर्व्वियोगो भवति, तदहमिच्छामि सकललोक लोचनेषु वस्तुम्, न पुनः शरीरग्रहणं कर्त्तुम् । इत्युक्ते देवैरसावशेष भूतानां नैत्रेष आसां कारितः । ततो भूतान्युन्मेषनिमेषं चक्रुः ।। ४-५-
अपुत्रस्य च तस्य भूभुजः शरीरमराजकभीरवस्ते मुनयोऽरणयां ममन्थुः ।। ४-५-
तत्र कुमारो जज्ञे, जननाज्जनकसंज्ञाञ्चासा ववाप ।। ४-५-
अभूदू विदेहोऽस्य पितेति वैदेहो मथनान्मिथिरभूत् । तस्योदावसुः पुत्रोऽभूत् । ततो नन्दिवर्द्धनः, तस्मात् सुकेतुः तस्यापि देवरातः, ततश्व बृहदुकूथः, तस्य च महावीर्य्यः, तस्यापि सत्यधृतिः, ततश्व धृष्टकेतुः, धृष्टकेतोर्हर्य्यश्वः, तस्य च मरुः मरोः प्रतिबन्धकः तस्मात् कृतरथः तस्मात् कृतिः, तस्य विबुधः, तस्याप महाधृतिः, तस्य च कृति रातः, ततो महारोमा ततः सुवर्णरोमा, तस्यापि पुत्रो ह्रस्वरोमा ततः सीर ध्वजोऽभूत् । तस्य पुत्रार्थ यजनभुव कृषतः सीरे सीता दुहिता समुत्पन्नासीत् सीरध्वजस्य भ्राता साङ्काश्याधिपतिः कुशध्वज नामा । सीरध्वजस्या पत्यभानुमान् ।। ४-५-
बानुमतः शतद्य म्नः, तस्य शुचिः, तस्मादूर्ज्ज चवहो नाम पुत्रो जज्ञ तस्यापि सत्यध्वजः ततः कुनिः (क्रिणिः), कुनेरञ्जनः, ततूपुत्रः, ऋतुजित्, ततोऽरिष्टनेमिः, तस्मात् श्रतायुः, ततः सूर्य्याश्वः, तस्मात् सञ्जयः (संनयः), ततः क्षेमारिः, तसमा दनेनाः,तस्मान्मीनरथः (मानरथः) तस्य सत्यरथः, तस्य सात्यरथिः, सात्यरथरुपगुः, तस्मात् श्रुतः, तस्माच्छा पाच्च मित्रावरुणयोस्तेजसि वांशष्ठतेज (सुवर्ज्जाः), तस्यापि सुभासः, ततः सुश्रुतः, तस्माज्जयः, जयपुत्रो विजयः, तस्य ऋतः, ऋतात् सुनयः, ततो वीतहव्यः, तस्मात् सञ्जयः, तस्माद् (क्षेमाश्वः तस्मात्) धृतिः धृतेर्बहुलाश्वः तस्य पुत्रः कृतिः कृतौ सन्तिष्ठतेऽय जनक-वंशः ।। ४-५-
इत्येते मैथिलाः। प्राचुर्य्यणएतेषामात्मविद्याश्रयिणोभूपाला भविष्यन्तीति ।। ४-५-
मैत्रेय उवाच । सूर्यस्य वंश्या भगवन्कथिता भवता मम । सोमस्याप्यखिलान्वश्याञ्छ्रोतुमिच्छामि पार्थिवान्
कीर्त्त्यते स्थिरकीर्त्तीनां येषामद्यापि संततिः । प्रसादसुमुखस्तान्मे ब्रह्मन्नाख्यातुमर्हसि
श्रीपराशर उवाच । श्रूयतां मुनिशार्दूल वंशः प्रतिथतेजसः । सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयोऽभवन्
अयं हि वंशोतिबलपराक्रमद्युतिशीलचेष्टवद्भिरतिगुणान्वितैर्नहुषययाति-कार्तवीर्यार्जुनादिभिर्भूपालैरलंकृतः तमहं कथयामि श्रूयताम्
अखिलजगत्स्रष्टुर्भगवतो नारायणस्य नाभिसरोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः
अत्रेस्सोमः
तं च भगवानब्जयोनिः अश्षोऔ!षधीद्विजनक्षत्राणामाधिपत्येऽभ्यषेचयत्
स च राजसूयमकरोत्
तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश
मदावलेपाच्च सकलदेवगुरोर्बृस्पतेस्तारां नाम पत्नीं जहार
बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानसकलैश्च देवर्षिभिर्याचमानोपि न मुमोच
तस्य चंद्र स्य च बृहस्पतेर्द्वेषादुशना पार्ष्णिग्राहोभूत्
अंगिरसश्च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः सहाय्यमकरोत्
यतश्चोशना ततो जंभकुंभाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः
बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽऽभवत्
एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत्
ततश्च समस्तशस्त्राण्यसुरेषु रुद्र पुरोगमा देवा देवेषु चाश्षोदानवा मुमुचुः
एवं देवासुराहवसंक्षोभक्षुब्धहृदयमश्षोमेव जगद्ब्रह्माणं शरणं जगाम
ततश्च भगवानब्जयोनिरप्युशनसं शंकरमसुरान्देवांश्च निवार्य बृहस्पतये तारामदापयत्
तां चांतःप्रसवामवलोक्य बृहस्पतिरप्याह
नैष मम क्षेत्रे भवत्याऽन्यस्य सुतो धार्यस्समुत्सृजैनमलमलमतिधार्ष्ट्येनेति
सा च तेनैवमुक्तातिपतिव्रता भर्तृवचनानंतरं तमिषीकास्तंबे गर्भमुत्ससर्ज
स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप