भरतोपि गंधर्वविषयसाधनाय गच्छन् संग्रामे गंधर्वकोटीस्तिस्रो जघान
शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राक्षसो निहतो मथुरा च निवेशिता
इत्येवमाद्यतिबलपराक्रमविक्रमणैरतिदुष्टसंहारिणोश्षोस्य जगतो निष्पादितस्थितयो रामलक्ष्मणभरतशत्रुघ्नाः पुनरपि दिवमारूढाः
येऽपि तेषु भगवदंश्ष्वोनुरागिणः कोसलनगरजानपदास्तेपि तन्मनसस्तत्सालोक्यतामवापुः
अतिदुष्टसंहारिणो रामस्य कुशलवौ द्वौ पुत्रौ लक्ष्मणस्यांगदचंद्र केतू तक्षपुष्कलौ भरतस्य सुबाहुशूरसेनौ शत्रुघ्नस्य
कुशस्यातिथिरतिथेरपि निषधः पुत्रोऽभूत्
निषधस्याप्यनलस्तस्मादपि नभाः नभसः पुंडरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनकोऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्राद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभस्तस्माच्छंखणस्तमाद्युषिताश्वस्ततश्च विश्वसहो जज्ञे
तस्माद्धिरण्यनाभः यो महायोगीस्वराज्जैमिनेश्शिष्याद्याज्ञवल्क्याद्योगमवाय
हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद् ध्रुवसंधिस्ततस्सुदर्शनस्तस्मादग्निवर्णस्ततश्शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत्
योसौ योगमास्थायाद्यापि कलापग्राममश्रित्य तिष्ठति
आगामियुगे सूर्यवंशक्षत्रव्रत आवर्त्तयिता भविष्यति
तस्यात्मजः प्रशुश्रुकस्तस्यापि सुसंधिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश्च विश्वभवः
तस्य बृहद्बलः योर्जुनतनयेनाभिमन्युनाभारतयुद्धे क्षयमनीयत
एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः । एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते
इक्ष्वाकुतनयो योऽसौनिमिर्नाम, स तु सहस्त्रवत्सर सत्रमारेभ वशिष्ञ्च होतारं वरयामास ।। ४-५-
तमाह वशिष्ठः, अहमिन्द्रण पञ्चवर्षशतं यागार्थं प्रथमतर वृतः, तदनन्तर प्रतिपाल्यताम्, आगत स्तवापि ऋत्विगू भविष्यामि, इत्युक्ते स पृथिवीपतिना न किञ्चिदुक्तः वशिष्ठोऽप्यनेन समन्वीप्सिकमित्यमरपतेर्यागमकरोत् ।। ४-५-
सोऽपि ततूकालमेवान्यैर्गौतमादिभिर्यागमकरोत् । समाप्ते चामरपतेर्यागे त्वरावान् विशिष्टो निमेः कर्म्म करिष्यामीत्याजगाम, ततूकर्म्मकर्त्तृ त्वञ्च तत्र गौत मस्य दृष्ट्वा, अथ स्वपते तस्मै राज्ञे मामप्रत्याख्यायैत दनेन गौतमाय कर्म्मान्तरमर्पितं यस्मात्, तस्मादयं विदेहो भविष्यातीति शापं ददौ ।। ४-५-
प्रतिबुद्धश्वासाववनीपतिरपि प्राह, यस्मान्मा मसम्भाष्य अजानत एव शयानस्य शापोतूसर्गमसौ दुष्टगुरुश्वकार, तस्मात् तस्यापि दहः पतितो भविष्यतीति प्रतिशापं दत्त्वा देहमत्यजत् ।। ४-५-
तस्माच्छापाच्च मित्रावरुणयोस्तेजसि वशिष्ठतेजः प्रविष्टम्, उर्व्वशीदर्शनां दुद्भूतवीर्य्यप्रपातयोः सकाशादू वशिष्ठो देहमपरं लेभे ।। ४-५-
निमेरपि तच्छरीरमतिमनोहरतैलगन्धादिभरुप स्क्रियमाणं नैव क्ल दादिक दोषमवाप, सद्योमृतमिव तस्थौ ।। ४-५-
यज्ञसमाप्तौ च भागग्रहणायागतान् देवान् ऋत्विज ऊचुः, यजमानाय वरो दीयतामिति । देवै श्छन्दितो निमिराह ।। ४-५-
भगवन्तोऽखिलसंसारदूः खसङ्घातस्य च्छत्तोरः न ह्यतोवज्जगत्यन्यद दुः खमस्ति, यच्छरीरात्मनोर्व्वियोगो भवति, तदहमिच्छामि सकललोक लोचनेषु वस्तुम्, न पुनः शरीरग्रहणं कर्त्तुम् । इत्युक्ते देवैरसावशेष भूतानां नैत्रेष आसां कारितः । ततो भूतान्युन्मेषनिमेषं चक्रुः ।। ४-५-
अपुत्रस्य च तस्य भूभुजः शरीरमराजकभीरवस्ते मुनयोऽरणयां ममन्थुः ।। ४-५-
तत्र कुमारो जज्ञे, जननाज्जनकसंज्ञाञ्चासा ववाप ।। ४-५-
अभूदू विदेहोऽस्य पितेति वैदेहो मथनान्मिथिरभूत् । तस्योदावसुः पुत्रोऽभूत् । ततो नन्दिवर्द्धनः, तस्मात् सुकेतुः तस्यापि देवरातः, ततश्व बृहदुकूथः, तस्य च महावीर्य्यः, तस्यापि सत्यधृतिः, ततश्व धृष्टकेतुः, धृष्टकेतोर्हर्य्यश्वः, तस्य च मरुः मरोः प्रतिबन्धकः तस्मात् कृतरथः तस्मात् कृतिः, तस्य विबुधः, तस्याप महाधृतिः, तस्य च कृति रातः, ततो महारोमा ततः सुवर्णरोमा, तस्यापि पुत्रो ह्रस्वरोमा ततः सीर ध्वजोऽभूत् । तस्य पुत्रार्थ यजनभुव कृषतः सीरे सीता दुहिता समुत्पन्नासीत् सीरध्वजस्य भ्राता साङ्काश्याधिपतिः कुशध्वज नामा । सीरध्वजस्या पत्यभानुमान् ।। ४-५-
बानुमतः शतद्य म्नः, तस्य शुचिः, तस्मादूर्ज्ज चवहो नाम पुत्रो जज्ञ तस्यापि सत्यध्वजः ततः कुनिः (क्रिणिः), कुनेरञ्जनः, ततूपुत्रः, ऋतुजित्, ततोऽरिष्टनेमिः, तस्मात् श्रतायुः, ततः सूर्य्याश्वः, तस्मात् सञ्जयः (संनयः), ततः क्षेमारिः, तसमा दनेनाः,तस्मान्मीनरथः (मानरथः) तस्य सत्यरथः, तस्य सात्यरथिः, सात्यरथरुपगुः, तस्मात् श्रुतः, तस्माच्छा पाच्च मित्रावरुणयोस्तेजसि वांशष्ठतेज (सुवर्ज्जाः), तस्यापि सुभासः, ततः सुश्रुतः, तस्माज्जयः, जयपुत्रो विजयः, तस्य ऋतः, ऋतात् सुनयः, ततो वीतहव्यः, तस्मात् सञ्जयः, तस्माद् (क्षेमाश्वः तस्मात्) धृतिः धृतेर्बहुलाश्वः तस्य पुत्रः कृतिः कृतौ सन्तिष्ठतेऽय जनक-वंशः ।। ४-५-
इत्येते मैथिलाः। प्राचुर्य्यणएतेषामात्मविद्याश्रयिणोभूपाला भविष्यन्तीति ।। ४-५-
मैत्रेय उवाच । सूर्यस्य वंश्या भगवन्कथिता भवता मम । सोमस्याप्यखिलान्वश्याञ्छ्रोतुमिच्छामि पार्थिवान्
कीर्त्त्यते स्थिरकीर्त्तीनां येषामद्यापि संततिः । प्रसादसुमुखस्तान्मे ब्रह्मन्नाख्यातुमर्हसि
श्रीपराशर उवाच । श्रूयतां मुनिशार्दूल वंशः प्रतिथतेजसः । सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयोऽभवन्