यथा न ब्राह्मणेभ्यस्सकाशादात्मापि मे प्रियतरः न च स्वधर्मोल्लंघनं मया कदाचिदप्यनुष्ठितं न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वच्युतव्यतिरेकवती दृष्टिर्ममाभूत् तथा तमेवं मुनिजनानुस्मृतं भगवंतमस्खलितगतिः प्रापयेयमित्यश्षोदेवगुरौ भगवत्यनिर्द्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप
अत्रापि श्रूयते श्लोको गीतस्सप्तर्षिभिः पुरा । खट्वांगेन समो नान्यः कश्चिदुर्व्यां भविष्यति
येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम् । त्रयोतिसंधिता लोका बुद्ध्या सत्येन चैव हि
खट्वांगाद्दीर्घबाहुः पुत्रोऽभवत्
ततो रघुरभवत्
तस्मादप्यजः
अजाद्दशरथः
तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांश्नो रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्द्धा पुत्रत्वमायासीत्
रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान
यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप
सुबाहुप्रमुखांश्च क्षयमनयत्
दर्शनमात्रेणाहल्यामपापां चकार
जनकगृहे च माहेश्वरं चापमनायासेन बभंज
सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे
सकलक्षत्त्रियक्षयकारिणमश्षोहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार
पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश
विराधखरदूषणादीन् कबंधवालिनौ च निजघान
बद्धा चांभोनिधिमसेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यां तद्वधादपहृतकलंकामप्यनलप्रवेशशुद्धामश्षोदेवसंघैस्तूयमानशीलां जनकराजकन्यामयोध्यामानिन्ये
ततश्चाभिषेकमंगलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते संक्षेपेण श्रूयताम्
लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवांगदजाम्बवद्धनुमत्प्रभृतिभिस्समु-त्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यमानो दाशरथिर्ब्रह्मेंयमनिरृतिवरुणवायुकुबेरेशानप्रभृतिभिस्सर्वामरैर्वसि-ष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्त्यप्रभृतिभिर्मु-निवरैः ऋग्यजुस्सामाथर्वैस्संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमंगलवाद्यैर्वीणावेणुमृदंगभेरीपटहशंखकाहलगोमुखप्रभृतिभिस्सुना-दैस्समस्तभूभृतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेंद्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियस्सिंहासनगत एकादसाब्दसहस्रं राज्यमकरोत्
भरतोपि गंधर्वविषयसाधनाय गच्छन् संग्रामे गंधर्वकोटीस्तिस्रो जघान
शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राक्षसो निहतो मथुरा च निवेशिता
इत्येवमाद्यतिबलपराक्रमविक्रमणैरतिदुष्टसंहारिणोश्षोस्य जगतो निष्पादितस्थितयो रामलक्ष्मणभरतशत्रुघ्नाः पुनरपि दिवमारूढाः
येऽपि तेषु भगवदंश्ष्वोनुरागिणः कोसलनगरजानपदास्तेपि तन्मनसस्तत्सालोक्यतामवापुः
अतिदुष्टसंहारिणो रामस्य कुशलवौ द्वौ पुत्रौ लक्ष्मणस्यांगदचंद्र केतू तक्षपुष्कलौ भरतस्य सुबाहुशूरसेनौ शत्रुघ्नस्य
कुशस्यातिथिरतिथेरपि निषधः पुत्रोऽभूत्
निषधस्याप्यनलस्तस्मादपि नभाः नभसः पुंडरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनकोऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्राद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभस्तस्माच्छंखणस्तमाद्युषिताश्वस्ततश्च विश्वसहो जज्ञे
तस्माद्धिरण्यनाभः यो महायोगीस्वराज्जैमिनेश्शिष्याद्याज्ञवल्क्याद्योगमवाय
हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद् ध्रुवसंधिस्ततस्सुदर्शनस्तस्मादग्निवर्णस्ततश्शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत्
योसौ योगमास्थायाद्यापि कलापग्राममश्रित्य तिष्ठति