यदा च सप्तवर्षाण्यसौ गर्भेण जज्ञे ततस्तं गर्भमश्मना सा देवी जघान
पुत्रश्चाजायत
तस्य चाश्मक इत्येव नामाभवत्
अश्मस्य मूलको नाम पुत्रोऽभवत्
योसौ निःक्षत्रे क्ष्मातलेस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्राभिः परिवार्य रक्षितः ततस्तं नारीकवचमुदाहरंति
मूलकाद्दशरथस्तस्मादिलिविलस्ततश्च विश्वसहः
तस्माच्च खट्वांगः योसौ देवासुरसंग्रामे देवैरभ्यर्थितोऽसुराञ्जघान
स्वर्गे च कृतप्रियैर्देवैर्वरग्रहणाय चोदितः प्राह
यद्यवश्यं वरो ग्राह्यः तन्ममायुः कथ्यतामिति
अनंतरं च तैरुक्तं मुहूर्त्तमेकं प्रमाणं तवायुरित्युक्तोथास्खलितगतिना विमानेन लघिमादिगुणो मर्त्यलोकमागम्येदमाह
यथा न ब्राह्मणेभ्यस्सकाशादात्मापि मे प्रियतरः न च स्वधर्मोल्लंघनं मया कदाचिदप्यनुष्ठितं न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वच्युतव्यतिरेकवती दृष्टिर्ममाभूत् तथा तमेवं मुनिजनानुस्मृतं भगवंतमस्खलितगतिः प्रापयेयमित्यश्षोदेवगुरौ भगवत्यनिर्द्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप
अत्रापि श्रूयते श्लोको गीतस्सप्तर्षिभिः पुरा । खट्वांगेन समो नान्यः कश्चिदुर्व्यां भविष्यति
येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम् । त्रयोतिसंधिता लोका बुद्ध्या सत्येन चैव हि
खट्वांगाद्दीर्घबाहुः पुत्रोऽभवत्
ततो रघुरभवत्
तस्मादप्यजः
अजाद्दशरथः
तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांश्नो रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्द्धा पुत्रत्वमायासीत्
रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान
यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप
सुबाहुप्रमुखांश्च क्षयमनयत्
दर्शनमात्रेणाहल्यामपापां चकार
जनकगृहे च माहेश्वरं चापमनायासेन बभंज
सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे
सकलक्षत्त्रियक्षयकारिणमश्षोहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार
पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश
विराधखरदूषणादीन् कबंधवालिनौ च निजघान
बद्धा चांभोनिधिमसेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यां तद्वधादपहृतकलंकामप्यनलप्रवेशशुद्धामश्षोदेवसंघैस्तूयमानशीलां जनकराजकन्यामयोध्यामानिन्ये
ततश्चाभिषेकमंगलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते संक्षेपेण श्रूयताम्
लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवांगदजाम्बवद्धनुमत्प्रभृतिभिस्समु-त्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यमानो दाशरथिर्ब्रह्मेंयमनिरृतिवरुणवायुकुबेरेशानप्रभृतिभिस्सर्वामरैर्वसि-ष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्त्यप्रभृतिभिर्मु-निवरैः ऋग्यजुस्सामाथर्वैस्संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमंगलवाद्यैर्वीणावेणुमृदंगभेरीपटहशंखकाहलगोमुखप्रभृतिभिस्सुना-दैस्समस्तभूभृतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेंद्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियस्सिंहासनगत एकादसाब्दसहस्रं राज्यमकरोत्