तत्तनयस्सुदासः
सुदासात्सौदासो मित्र सहनामा
स चाटव्यां मृगयार्थी पर्यटन् व्याघ्रद्वयमपश्यत्
ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान
म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभूत्
द्वितीयोपि प्रतिक्रियां ते करिष्यामीत्युक्त्वांतर्धानं जगाम
कालेन गच्छता सौदासो यज्ञमयजत्
परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रांते तद्र क्षो वसिष्ठरूपमास्थाय यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रांतः
भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ४७ असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत्
आगताय वसिष्ठाय निवेदितवान्
स चाप्यचिंतयदहोस्य राज्ञो दौश्शील्यं येनैतन्मांसमस्माकं प्रयच्छति किमेतद्द्र व्यजातमिति ध्यानपरोभवत्
अपश्यच्च तन्मांसंमानुषम्
अतः क्रोधकलुषीकृतचेता राजनि सापमुत्ससर्ज
यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि भवान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति
अनंतरं च तेनापि भगवतैवाभिहितोस्मीत्युक्ते किं किं मयाभहितमिति मुनिः पुनरपि समाधौ तस्थौ
समाधिविज्ञानावगतार्थश्चानुग्रहं तस्मै चकार नात्यंतिकमेतद्द्वादशाब्दं तव भोजनं भविष्यतीति
असावपि प्रतिगृह्योदकांजलिं मुनिशापप्रदानायोद्यतो भगवन्नयमस्मद्गुरुर्नार्हस्येनं कुलदेवताभूतमाचार्यं शप्तुमिति मदयंत्या स्वपत्न्या प्रसादितस्सस्यांबुदरक्षणार्थं तच्छापांवु नोर्व्यां न चाकाशे चिक्षेप किं तु तेनैव स्वपदौ सिषेच
तेन च क्वोधाश्रितेनांबुना दग्धच्छायौ तत्पादौ कल्माषतामुपगतौ ततस्स कल्माषपादसंज्ञामवाप
वसिष्ठशापाच्च षष्ठेषष्ठे काले राक्षसस्वभावमेत्याटव्यां पर्यटन्ननेकशो मानुषानभक्षयत्
एकदा तु कंचिन्मुनिमृतुकाले भार्यासंगतं ददर्श
तयोश्च तमतिभीषणं राक्षसस्वरूपमवलोक्य त्रासाद्दंपत्योः प्रधावितयोर्ब्रह्मणं जग्राह
ततस्सा ब्राह्मणी बहुशस्तमभियाचितवती
प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मित्रसहो न राक्षसः
नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामस्मद्भर्त्तारं हंतुमित्येवं बहुप्रकारं तस्यां विलपंत्यां व्याघ्रः पशुमिवाऽरण्येऽभिमतं तं ब्राह्मणमभक्षयत्
ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप
यस्मादेवं मय्यतृषप्तायां त्वयायं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तॐतं प्राप्स्यसीति
शप्त्वा चैव साग्निं प्रविवेश
ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयंती तं स्मारयामास
ततः परमसौ स्त्रीभोगं तत्याज
वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयंत्यां गर्भाधानं चकार