तदंभसा च संस्पृष्टेष्वस्थिभस्मसु एते च स्वर्गमारोक्ष्यन्ति
भगवद्विष्णुपादांगुष्ठनिर्गतस्य हि जलस्यैतन्माहात्म्यम्
यन्न केवलमभिसंधिपूर्वकं स्नानाद्युपभोगेषूपकारकमनभिसांधितमप्यस्यां प्रेतप्राणस्यास्थिचर्मस्नायुकेशाद्युपस्पृष्टं शरीरजमपि पतितं सद्यश्शरीरिणं स्वर्गं नयतीत्युक्तः प्रणम्य भवगतेऽश्वमादाय पितामहयज्ञमाजगाम्
सगरोप्यश्वमासाद्य तं यज्ञं समापयामास
सागरं चात्मजप्रीत्या पुत्रत्वे कल्पितवान्
तस्यांशुमतो दिलीपः पुत्रोभवत्
दिलीपस्य भगीरथः योऽसौ गंगां स्वर्गादिहानीय भागीरथीसंज्ञां चकार
भगीरथात्सुहोत्रस्सुहोत्राच्छ्रुतः तस्यापि नाभागः ततॐबरीषः तत्पुत्रस्सिंधुद्वीपः सिंधुद्वीपादयुतायुः
तत्पुत्रश्च ऋतुपर्णः योऽसौ नलसहायोक्षहृदयज्ञोभूत्
ऋतुपर्णपुत्रस्सर्वकामः
तत्तनयस्सुदासः
सुदासात्सौदासो मित्र सहनामा
स चाटव्यां मृगयार्थी पर्यटन् व्याघ्रद्वयमपश्यत्
ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान
म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभूत्
द्वितीयोपि प्रतिक्रियां ते करिष्यामीत्युक्त्वांतर्धानं जगाम
कालेन गच्छता सौदासो यज्ञमयजत्
परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रांते तद्र क्षो वसिष्ठरूपमास्थाय यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रांतः
भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ४७ असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत्
आगताय वसिष्ठाय निवेदितवान्
स चाप्यचिंतयदहोस्य राज्ञो दौश्शील्यं येनैतन्मांसमस्माकं प्रयच्छति किमेतद्द्र व्यजातमिति ध्यानपरोभवत्
अपश्यच्च तन्मांसंमानुषम्
अतः क्रोधकलुषीकृतचेता राजनि सापमुत्ससर्ज
यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि भवान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति
अनंतरं च तेनापि भगवतैवाभिहितोस्मीत्युक्ते किं किं मयाभहितमिति मुनिः पुनरपि समाधौ तस्थौ
समाधिविज्ञानावगतार्थश्चानुग्रहं तस्मै चकार नात्यंतिकमेतद्द्वादशाब्दं तव भोजनं भविष्यतीति
असावपि प्रतिगृह्योदकांजलिं मुनिशापप्रदानायोद्यतो भगवन्नयमस्मद्गुरुर्नार्हस्येनं कुलदेवताभूतमाचार्यं शप्तुमिति मदयंत्या स्वपत्न्या प्रसादितस्सस्यांबुदरक्षणार्थं तच्छापांवु नोर्व्यां न चाकाशे चिक्षेप किं तु तेनैव स्वपदौ सिषेच
तेन च क्वोधाश्रितेनांबुना दग्धच्छायौ तत्पादौ कल्माषतामुपगतौ ततस्स कल्माषपादसंज्ञामवाप
वसिष्ठशापाच्च षष्ठेषष्ठे काले राक्षसस्वभावमेत्याटव्यां पर्यटन्ननेकशो मानुषानभक्षयत्
एकदा तु कंचिन्मुनिमृतुकाले भार्यासंगतं ददर्श