अशेषपर्वस्वेतेषु तस्मात् संयमिभिर्बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः
नान्ययोनावयोनौ वा नोपयुक्तौषधस्तथा । द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत्
चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते
प्रोक्तपर्वस्वशेषेषु नैव भूपाल सन्ध्ययोः । गच्छेद्व्यवायं मनसा न मूत्रोच्चारपीडितः
पर्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप । भुवि रोगावहो नॄणामप्रशस्तो जलाशये
परदारान्न गच्छेत मनसापि कथञ्चन । किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवायिनाम्
मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः । परदाररतिः पुंसामिह चामुत्र भीतिदा
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्वनृतावपि
(गृहस्थाचारकथनम्) और्व उवाच देवगोब्राहमणान् सिद्धान् वृद्धाचार्यांस्तथार्चयेत् । द्विकालञ्च नमेत् सन्ध्यामग्नीनुपचरेत् तथा
सदानुपहते वस्त्रे प्रशस्ताश्च महौषधीः । गारुडानि च रत्नानि बिभृयात् प्रयतो नरः
प्रस्निग्धामलकेशश्च सुगन्धिश्चारुवेषधृक् । सिताः सुमनसो हृद्या बिभृयाच्च नरः सदा
किञ्चित् परस्वं न हरेन्नाल्पमप्यप्रियं वदेत् । प्रियञ्च नानृतं ब्रूयान्नान्यदोषानुदीरयेत्
नान्यश्रियं तथा वैरं रोचयेत् पुरुषर्षभ । न दुष्टं यानमारोहेत् कूलच्छाया न संश्रयेत्
विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः । बन्धकी बन्धकीभर्तुः क्षुद्रानृतकथैस्सह
तथातिव्ययशीलैश्च परिवादरतैश्शठैः । बुधो मैत्रीं न कुर्वीत नैकः पन्थानमाश्रयेत्
नावगाहेज्जलौघस्य वेगमग्रे नरेश्वर । प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः
न कुर्याद्दन्तसङ्घर्षं कुष्णीयाच्च न नासिकाम् । नासंवृतमुखो जृम्भेच्छ्वासकासौ विसर्जयेत्
नोच्चैर्हसेत् सशब्दं च न मुञ्चेत् पवनं बुधः । नखान्न खादयेच्छिन्द्यान्न तृणं न महीं लिखेत्
न श्मश्रु भक्षयेल्लोष्टं न मृद्नीयाद्विचक्षणः । ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो
नग्नां परस्त्रियं चैव सूर्यं चास्तमयोदये । न हुङ्कुर्याच्छवं गन्धं शवगन्धो हि सोमजः
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च । दुष्टस्त्रीसन्निकर्षं च वर्जयेन्निशि सर्वदा
पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद्बुधः । नैकश्शून्याटवीं गच्छेत् तथा शून्यगृहे वसेत्
केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा । स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत्
नानार्यानाश्रयेत् कांश्चिन्न जिह्मं रोचयेद्बुधः । उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः
अतीव जागरस्वप्ने तद्वत्स्नानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर
दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् । अवश्यायं च राजेन्द्र पुरोवातातपौ तथा
न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः । मुक्तकेशश्च नाचामेद्देवाद्यर्चां च वर्जयेत्
होमदेवार्चनाद्यासु क्रियास्वाचमने तथा । नैकवस्त्रः प्रवर्तेत द्विजवाचनिके जपे
नासमञ्जसशीलैस्तु सहासीत कथञ्चन । सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यते
विरोधं नोत्तमैर्गच्छेन्नाधमैश्च सदा बुधः । विवाहश्च विवादश्च तुल्यशीलैर्नृपेष्यते