पिता चास्याचिंतयदयमतीतबाल्यः सुबुद्धिमान् भविष्यतीति
अथ तत्रापि च वयस्यतीते असच्चरितमेनं पिता तत्याज
तान्यपि षष्टिः पुत्रसहस्राण्यसमंजसचरितमेवानुचक्रुः
ततश्चासमंजसचरितानुकारिभिस्सागरैरपध्वस्तयज्ञैसन्मार्गे जगति देवास्सकलविद्यामयमसंस्पृष्टमश्षोदोषैर्भगवतः पुरुषोत्तमस्यांशभूत कपिलं प्रणम्य तदर्थमूचुः
भगवन्नेभिस्सगरतनयैरसमंजसचरितमनुगम्यते
कथमेभिरसद्वृत्तमनुसरद्भिर्जगद्भविष्यतीति
अत्यार्त्त जगत्परित्राणाय च भगवतोत्र शरीरग्रहणमित्याकर्ण्य भगवानाहाल्पैरैव दिनैर्विनंक्ष्यन्तीति
अत्रांतरे च सगरो हयमेधमारभत
तस्य च पुत्रैरधिष्ठितमस्याश्वं कोप्यपहृत्य भुवो बिलं प्रविवेश
ततस्तत्तनयाश्चाश्वखुरगतिनिर्वंधेनावनीमेकैको योजनं चख्नुः
पाताले चाश्वं परिभ्रमंतं तमवनीपतितनयास्ते ददृशुः
नातिदूरेऽवस्थितं च भगवंतमपघने शरत्कालेर्कमिव तेजोभिरवनतमूर्द्धमधश्चाश्षोदिशश्चोद्भासयमानं हयहर्त्तारं कपिलर्षिमपश्यन्
ततश्चोद्यतायुधा दुरात्मानोऽयमस्मदपकारी यज्ञविघ्नकारी हन्यतां हयहर्त्ता हन्यतामित्यवोचन्नभ्यधावंश्च
ततस्तेनापि भगवता किंचिदीषत्परिवर्त्तितलोचनेनावलोकितास्स्वशरीरसमुत्थेनाऽग्निना-दह्यमाना विनेशुः
सगरोप्यवगम्याश्वानुसारि तत्पुत्रबलमश्षॐ परमर्षिणा कपिलेन तेजसा दग्धं ततॐशुमंतमसमंजसपुत्रमश्वानयनाय युयोज
स तु सगरतनयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तृष्टाव
अथैनं भगवानाह
गच्छैनं पितामहायाश्वं प्रापय वरं वृणीष्व च पुत्रक पौत्राश्च ते स्वर्गाद्गंगां भुवमानेष्यन्त इति
अथांशुमानपि स्वर्यातानां ब्रह्मदंडहतानामस्मत्पितॄणामस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरमस्माकं प्रयच्छेति प्रत्याह
तदाकर्ण्य तं च भगवानाह उक्तमेवैतन्मयाद्य पौत्रस्ते त्रिदिवाद्गंगां भुवमानयिष्यतीति
तदंभसा च संस्पृष्टेष्वस्थिभस्मसु एते च स्वर्गमारोक्ष्यन्ति
भगवद्विष्णुपादांगुष्ठनिर्गतस्य हि जलस्यैतन्माहात्म्यम्
यन्न केवलमभिसंधिपूर्वकं स्नानाद्युपभोगेषूपकारकमनभिसांधितमप्यस्यां प्रेतप्राणस्यास्थिचर्मस्नायुकेशाद्युपस्पृष्टं शरीरजमपि पतितं सद्यश्शरीरिणं स्वर्गं नयतीत्युक्तः प्रणम्य भवगतेऽश्वमादाय पितामहयज्ञमाजगाम्
सगरोप्यश्वमासाद्य तं यज्ञं समापयामास
सागरं चात्मजप्रीत्या पुत्रत्वे कल्पितवान्
तस्यांशुमतो दिलीपः पुत्रोभवत्
दिलीपस्य भगीरथः योऽसौ गंगां स्वर्गादिहानीय भागीरथीसंज्ञां चकार
भगीरथात्सुहोत्रस्सुहोत्राच्छ्रुतः तस्यापि नाभागः ततॐबरीषः तत्पुत्रस्सिंधुद्वीपः सिंधुद्वीपादयुतायुः
तत्पुत्रश्च ऋतुपर्णः योऽसौ नलसहायोक्षहृदयज्ञोभूत्
ऋतुपर्णपुत्रस्सर्वकामः