उत्पन्नबुद्धिश्च मातरमब्रवीत्
अंब कथयात्र वयं क्व तातोस्माकमित्येवमादिपृच्छंतं माता सर्वमेवावोचत्
ततश्च पितृराज्यापहरणादमर्षितो हैहयतालजंघादिवधाय प्रतिज्ञामकरोत्
प्रायशश्च हैहयतालजंघाञ्जघान
शकयवनकांभोजपारदपप्लवाः हन्यमानास्तत्कुलगुरुं वसिष्ठं शरणं जग्मुः
अथैनान्वसिष्ठो जीवन्मृतकान् कृत्वा सगरमाह
वत्सालमेभिर्जीवन्मृतकैरनुमृतैः
एते च मयैव त्वत्प्रतिज्ञापरिपालनाय निजधर्मद्विजसंगपरित्यागं कारिताः
तथेति तद्गुरुवचनमभिनंद्य तेषां वेषान्यत्वमकारयत्
यवनान्मुंडितशिरसोर्द्धमुंडिताञ्च्छकान् प्रलंबकेशान् पारदान् पप्लवाञ्श्मश्रुधरान् निस्स्वाध्यायवषट्कारानेतानन्यांश्च क्षत्रियांश्चकार
एते चात्मधर्मपरित्यागाद्ब्राह्मणैः परित्यक्ता म्लेच्छतां ययुः
सगरोपि स्वमधिष्ठानमागम्य अस्खलितचक्रस्सप्तद्वीपवतीमिमामुर्वीं प्रशशास
श्रीपराशर उवाच । काश्यपदुहिता सुमतिर्विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्यास्ताम्
ताभ्यां चापत्यार्थमौर्वः परमेण समाधिनाराधितो वरमदात्
एका वंशकरमेकं पुत्रमपरा षष्टिं पुत्रसहस्राणां जनयिष्यतीति यस्या यदभिमतं तदिच्छया गृह्यतामित्युक्ते केशिन्येकं वरयामास
सुमतिः पुत्रसहस्राणि षष्टिं वव्रे
तथेत्युक्ते अल्पैरहोभिः केशिनी पुत्रमेकमसमंजसनामानं वंशकरमसूत
काश्यपतनयायास्तु सुमत्याः षष्टिं पुत्रसहस्राण्यभवन्
तस्मादसमंजसादंशुमान्नाम कुमारो जज्ञे
स त्वसमंजसो बालो बाल्यादेवासद्वृत्तोभूत्
पिता चास्याचिंतयदयमतीतबाल्यः सुबुद्धिमान् भविष्यतीति
अथ तत्रापि च वयस्यतीते असच्चरितमेनं पिता तत्याज
तान्यपि षष्टिः पुत्रसहस्राण्यसमंजसचरितमेवानुचक्रुः
ततश्चासमंजसचरितानुकारिभिस्सागरैरपध्वस्तयज्ञैसन्मार्गे जगति देवास्सकलविद्यामयमसंस्पृष्टमश्षोदोषैर्भगवतः पुरुषोत्तमस्यांशभूत कपिलं प्रणम्य तदर्थमूचुः
भगवन्नेभिस्सगरतनयैरसमंजसचरितमनुगम्यते
कथमेभिरसद्वृत्तमनुसरद्भिर्जगद्भविष्यतीति
अत्यार्त्त जगत्परित्राणाय च भगवतोत्र शरीरग्रहणमित्याकर्ण्य भगवानाहाल्पैरैव दिनैर्विनंक्ष्यन्तीति
अत्रांतरे च सगरो हयमेधमारभत
तस्य च पुत्रैरधिष्ठितमस्याश्वं कोप्यपहृत्य भुवो बिलं प्रविवेश
ततस्तत्तनयाश्चाश्वखुरगतिनिर्वंधेनावनीमेकैको योजनं चख्नुः