अनरण्यस्य पृषदश्वः पृषदश्वस्य हर्यश्वः पुत्रोऽभवत्
तस्य च हस्तः पुत्रोऽभवत्
ततश्च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः
त्रय्यारुणेस्सत्यव्रतः योऽसौ त्रिशंकुसंज्ञामवाप
स चंडालतामुपगतश्च
द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चंडालप्रतिग्रहपरिहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबंध
स तु परितुष्टेन विश्वामित्रेण सशरीरस्स्वर्गमारोपितः
त्रिशंकोर्हरिश्चंद्र स्तस्माच्च रोहिताश्वस्ततश्च हरितो हरितस्य चंचुश्चंचोर्विजयवसुदेवौ रुरुको विजयाद्रु कस्य वृकः
ततो वृकस्य बाहुः योऽसौ हैहयतालजंघादिभिः पराजितॐतर्वत्न्या महिष्या सह वनं प्रविवेश
तस्याश्चा सपत्न्या गर्भस्तंभनाय गरो दत्तः
तेनास्य गर्भस्सप्तवर्षाणि जठर एव तस्थौ
स च बाहुर्वृद्धभावादौर्वाश्रमममीपे ममार
सा तस्य भार्या चितां कृत्वा तमारोप्यानुमरणकृतनिश्चयाऽभूत्
अथैतामतीतानागतवर्त्तमानकालत्रयवेदी भगवानौर्वस्स्वाश्रमान्निर्गत्याब्रवीत्
अलमलमनेनासद्ग्राहेणाखिलभूमं डलपतिरतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्त्ता तवोदरे चक्रवर्त्ती तिष्ठति
नैवमतिसाहसाध्यवसायिनी भवती भवेत्युक्ता सा तस्मादनुमरणनिर्बंधाद्विरराम
तेनैव च भगवता स्वाश्रममानीता
तत्र कतिपयदिनाभ्यंतरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे
तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार
कृतोपनयनं चैनमौर्वो वेदशास्त्राण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास
उत्पन्नबुद्धिश्च मातरमब्रवीत्
अंब कथयात्र वयं क्व तातोस्माकमित्येवमादिपृच्छंतं माता सर्वमेवावोचत्
ततश्च पितृराज्यापहरणादमर्षितो हैहयतालजंघादिवधाय प्रतिज्ञामकरोत्
प्रायशश्च हैहयतालजंघाञ्जघान
शकयवनकांभोजपारदपप्लवाः हन्यमानास्तत्कुलगुरुं वसिष्ठं शरणं जग्मुः
अथैनान्वसिष्ठो जीवन्मृतकान् कृत्वा सगरमाह
वत्सालमेभिर्जीवन्मृतकैरनुमृतैः
एते च मयैव त्वत्प्रतिज्ञापरिपालनाय निजधर्मद्विजसंगपरित्यागं कारिताः
तथेति तद्गुरुवचनमभिनंद्य तेषां वेषान्यत्वमकारयत्
यवनान्मुंडितशिरसोर्द्धमुंडिताञ्च्छकान् प्रलंबकेशान् पारदान् पप्लवाञ्श्मश्रुधरान् निस्स्वाध्यायवषट्कारानेतानन्यांश्च क्षत्रियांश्चकार