सा चैनं रसातलं नीतवती
रसातलगतश्चासौ भगवत्तेजसाप्यायितात्मवीर्य्यस्सकलगंधर्वान्निजघान
पुनश्च स्वपुरमाजगाम
सकलपन्नगाधिपतयश्च नर्मदायै वरं ददुः । यत्तेनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यतीति
अत्र च श्लोकः
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः
इत्युच्चार्याहर्निशमंधकारप्रवेशे वा सर्पैर्न दश्यते न चापि कृतानुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति
पुरुकुत्साय संततिविच्छेदो न भविष्यतीत्युरगपतयो वरं ददुः
पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत्
त्रसद्दस्युतस्संभूतोऽनरण्यः यं रावणोदिग्विजये जघान
अनरण्यस्य पृषदश्वः पृषदश्वस्य हर्यश्वः पुत्रोऽभवत्
तस्य च हस्तः पुत्रोऽभवत्
ततश्च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः
त्रय्यारुणेस्सत्यव्रतः योऽसौ त्रिशंकुसंज्ञामवाप
स चंडालतामुपगतश्च
द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चंडालप्रतिग्रहपरिहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबंध
स तु परितुष्टेन विश्वामित्रेण सशरीरस्स्वर्गमारोपितः
त्रिशंकोर्हरिश्चंद्र स्तस्माच्च रोहिताश्वस्ततश्च हरितो हरितस्य चंचुश्चंचोर्विजयवसुदेवौ रुरुको विजयाद्रु कस्य वृकः
ततो वृकस्य बाहुः योऽसौ हैहयतालजंघादिभिः पराजितॐतर्वत्न्या महिष्या सह वनं प्रविवेश
तस्याश्चा सपत्न्या गर्भस्तंभनाय गरो दत्तः
तेनास्य गर्भस्सप्तवर्षाणि जठर एव तस्थौ
स च बाहुर्वृद्धभावादौर्वाश्रमममीपे ममार
सा तस्य भार्या चितां कृत्वा तमारोप्यानुमरणकृतनिश्चयाऽभूत्
अथैतामतीतानागतवर्त्तमानकालत्रयवेदी भगवानौर्वस्स्वाश्रमान्निर्गत्याब्रवीत्
अलमलमनेनासद्ग्राहेणाखिलभूमं डलपतिरतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्त्ता तवोदरे चक्रवर्त्ती तिष्ठति
नैवमतिसाहसाध्यवसायिनी भवती भवेत्युक्ता सा तस्मादनुमरणनिर्बंधाद्विरराम
तेनैव च भगवता स्वाश्रममानीता
तत्र कतिपयदिनाभ्यंतरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे
तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार
कृतोपनयनं चैनमौर्वो वेदशास्त्राण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास