भगवत्यासज्याखिलं कर्मकलापं हित्वानं तमजमनादिनिधनमविकारमरणादिधर्ममवाप परमनन्तं परवतामच्युतं पदम्
इत्येतन्मांधातृदुहितृसंबंधादाख्यातम्
यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयति शृणोति श्रावयति धरत्यवधारयति लिखति लेखयति शिक्षयत्यध्यापयत्युपदिशति वा तस्य षट् जन्मानि दुस्संततिरसद्धर्मो वाड्मनसोरसन्मार्गाचरणमशेषहेतुषु वा ममत्वं न भवति
अतश्च मांधातुः पुत्रसंततिरभिधीयते
अंबरीषस्य मांधातृतनयस्य युवनाश्वः पुत्रोऽभूत्
तस्माद्धारीतः यतोंगिरसो हारीता
रसातले मौनेया नाम गंधर्वा बभूवुष्षट्कोटिसंख्यातास्तैरशेषाणि नागकुलान्यपहृतप्रधानरत्नाधिपत्यान्यक्रियंत
तैश्च गंधर्ववीर्यावभूतैरुरगेश्वरैस्तूयमानो भगवानशेषदेवेश आस्ते तच्छ्रवणोन्मीलितोन्निद्रपुंडरीकनयनो जलशयनो निद्रावसानप्रबुद्धः प्रणिपत्याभिहितः । भगवन्नस्माकमेतेभ्यो गंधर्वेभ्यो भयमुत्पन्नं कथमुपशममेष्यतीति
आह च भगवाननादिनिधनपुरुषोत्तमो योसौ यौवनाश्वस्य मांधातुः पुरुकुत्सनामा पुत्रस्तमहमनुप्रविश्य तानशेषान् दुष्टगंधर्वानुपशमं नयिष्यामीति
तदाकर्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो नर्मदां च पुरुकुत्सानयनाय चोदयामासुः
सा चैनं रसातलं नीतवती
रसातलगतश्चासौ भगवत्तेजसाप्यायितात्मवीर्य्यस्सकलगंधर्वान्निजघान
पुनश्च स्वपुरमाजगाम
सकलपन्नगाधिपतयश्च नर्मदायै वरं ददुः । यत्तेनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यतीति
अत्र च श्लोकः
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः
इत्युच्चार्याहर्निशमंधकारप्रवेशे वा सर्पैर्न दश्यते न चापि कृतानुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति
पुरुकुत्साय संततिविच्छेदो न भविष्यतीत्युरगपतयो वरं ददुः
पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत्
त्रसद्दस्युतस्संभूतोऽनरण्यः यं रावणोदिग्विजये जघान
अनरण्यस्य पृषदश्वः पृषदश्वस्य हर्यश्वः पुत्रोऽभवत्
तस्य च हस्तः पुत्रोऽभवत्
ततश्च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः
त्रय्यारुणेस्सत्यव्रतः योऽसौ त्रिशंकुसंज्ञामवाप
स चंडालतामुपगतश्च
द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चंडालप्रतिग्रहपरिहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबंध
स तु परितुष्टेन विश्वामित्रेण सशरीरस्स्वर्गमारोपितः
त्रिशंकोर्हरिश्चंद्र स्तस्माच्च रोहिताश्वस्ततश्च हरितो हरितस्य चंचुश्चंचोर्विजयवसुदेवौ रुरुको विजयाद्रु कस्य वृकः
ततो वृकस्य बाहुः योऽसौ हैहयतालजंघादिभिः पराजितॐतर्वत्न्या महिष्या सह वनं प्रविवेश
तस्याश्चा सपत्न्या गर्भस्तंभनाय गरो दत्तः