एकदा तु दुहितृस्नेहाकृष्टहृदयस्स महीपतिरतिदुःखितास्ता उत सुखिता वा इति विचिंत्य तस्य महर्षेराश्रमसमीपमुपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालामतिरम्योपवनजलाशयां ददर्श
प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्नेहनयनांबुगर्भनयनोब्रवीत्
अप्यत्र वत्से भवत्यास्सुखमुत किंचिदसुखमपि ते महर्षिस्स्नेहवानुत न स्मर्यतेस्मद्गृहवास इत्युक्ता तं तनया पितरमाह
तातातिरमणीयः प्रासादोत्रातिमनोज्ञमुपवनमेते कलवाक्यविहंगमाभिरुताः प्रोत्फुल्लपद्माकरजलाशयाः मनोनुकूलभक्ष्यभोज्यानुलेपनवस्त्रभूषणादिभोगो मृदूनि शयनासनानि सर्वसंपत्समेतं मे गार्हस्थ्यम्
तथापि केन वा जन्मभूमिर्न स्मर्यते
त्वत्प्रसादादिदमश्षोमतिशोभनम्
किं त्वेकं ममैतद्दुःखकारणं यदस्मद्गृहान्महर्षिरयम्मद्भर्त्ता न विष्क्रामति ममैव केवलमतिप्रीत्या समीपपरिवर्त्तिनीनामन्यासामस्मद्भगिनीनाम्
एवं च मम सोदर्योतिदुःखिता इत्येवमतिदुःखकारणमित्युक्तस्तया द्वितीयं प्रासादमुपेत्य स्वतनयां परिष्वज्योपविष्टस्तथैव पृष्टवान्
तयापि च सर्वमेतत्तत्प्रासादाद्युपभोगसुखं भृशमाख्यातं ममैव केवलमतिप्रीत्या पार्श्वपरिवर्त्तिनीनामन्यासामस्मद्भगिनीनामित्येवमादिश्रुत्वा समस्तप्रासादेषु राजा प्रविवेश तनयां तनयां तथैवावृच्छत्
सर्वाभिश्च ताभिस्तथैवाभिहितः परितोषविस्मयनिर्भरविवशहृदयो भगवंतं सौभरिमेकांतावस्थितमुपेत्य कृतपूजोब्रवीत्
दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावो नैवंविधमन्यस्य कस्यचिदस्माभिर्विभूतिभिर्विलसितमुपलक्षितं यदेतद्भगवतस्तपसः फलमित्यभिपूज्य तमृषिं तत्रैव तेन ऋषिवर्येण सह किंचित्कालमभिमतोपभोगान् बुभुजे स्वपुरं च जगाम
कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं सार्धमभवत्
अनुदिनानुरूढस्नेहप्रसरश्च स तत्रातीवममताकृष्टहृदयोऽभवत्
अप्येतेऽस्मत्पुत्राः कलभाषिणः पद्भ्यां गच्छेयुः अप्येते यौवनिनो भवेयुः अपि कृतदारानेतान् पश्येयमप्येषां पुत्रा भवेयुः अप्येतत्पुत्रान्पुत्रसमन्वितान्पश्यामीत्यादिमनोरथाननुदिनं कालसंपत्तिप्रवृद्धानुपेक्ष्यैतच्चिंतयामास
अहो मे मोहस्यातिविस्तारः
मनोरथानां न समाप्तिरस्ति वर्षायुतेनाप्यथ वापि लक्षैः । पूर्णेषुपूर्णेषु मनोरथानामुत्पत्तयस्संति पुनर्नवानाम्
पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः । दृष्टाः सुतास्तत्तनयप्रसूतिं द्रष्टुं पुनर्वांच्छति मेंऽतरात्मा
द्रक्ष्यामि तेषामिति चेत्प्रसूतिं मनोरथो मे भविता ततोन्यः । पूर्णेपि तत्राप्यपरस्य जन्म निवार्यते केन मनोरथस्य
आमृत्युतो नैव मनोरथानामंतोस्ति विज्ञातमिदं मयाद्य । मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसंगि
स मे समाधिर्जलवासमित्रमत्स्यस्य संगात्सहसैव नष्टः । परिग्रहस्संगकृतो मयायं परिग्रहोत्था च ममातिलिप्सा
दुःखं यदैवैकशरीरजन्म शतार्द्धसंख्याकमिदं प्रसूतम् । परिग्रहेण क्षितिपात्मजानां सुतैरनेकैर्बहुलीकृतं तत
सुतात्मजैस्तत्तनयैश्च भूयो भूयश्च तेषां परिग्रहेण । विस्तारमेष्यत्यतिदुःखहेतुः परिग्रहो वै ममताभिधानः
चीर्णं तपो यत्तु जलाश्रयेण तस्यार्द्धिरेषा तपसोंतरायः । मत्स्यस्य संगादभवच्च यो मे सुतादिरागो मुषितोस्मि तेन
निस्संगता मुक्तिपदं यतीनां संगादशेषाः प्रभवंति दोषाः । आरूढयोगो विनिपात्यतेधस्संगेन योगी किमुताल्पबुद्धिः
अहं चरिष्यामि तदात्मनोर्थे परिग्रहग्राहगृहीतबुद्धिः । यदा हि भूयः परिहीनदोषो जनस्य दुःखैर्भविता न दुःखी
सर्वस्य धातारमचिंत्यरूपमणोरणीयांसमतिप्रमाणम् । सितासितं चेश्वरमीश्वराणामाराधयिष्ये तपसैव विष्णुम्
तस्मिन्नशेषौजसि सर्वरूपिण्यव्यक्तविस्पष्टतनावनंते । ममाचलं चित्तमपेतदोषं सदास्तु विष्णावभवाय भूयः
समस्तभूतादमलादनंतात्सर्वेश्वरादन्यदनादिमध्यात् । यस्मान्न किंचित्तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुम्
श्रीपराशर उवाच। इत्यात्मानमात्मनैवाभिधायासौ सौभरिरपहाय पुत्रगृहासनपरिग्रहादिकमशेषमर्थजातं सकलभार्यासमन्वितो वनं प्रविवेश
तत्राप्यनुदिनं वैखानसनिष्पाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत्