अन्नशाकाम्बुदानेन स्वशक्त्या पूजयेत् पुमान् । शयनप्रस्तरमहीप्रदानैरथवापि तम्
कृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही । गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप
नाविशालां न वै भुग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्यामधितिष्ठेदनास्तृताम्
प्राच्यां दिशि शिरश्शस्तं याम्यायामथ वा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम्
ऋतावुपगमश्शस्तस्स्वपत्न्यामवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु
नाद्यूनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् । नानिष्टां न प्रकुपितां न त्रस्तां न च गर्भिणीम्
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् । क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर्गुणैर्युतः
स्नातस्स्रग्गन्धधृक् प्रीतो नाध्मातः क्षुधितोऽपि वा । सकामस्सानुरागश्च व्यवायं पुरुषो व्रजेत्
चतुर्दश्यष्टमी चैव तथामा चाथ पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसङ्क्रान्तिरेव च
तैलस्त्रीमांससम्भोगी सर्वेष्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः
अशेषपर्वस्वेतेषु तस्मात् संयमिभिर्बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः
नान्ययोनावयोनौ वा नोपयुक्तौषधस्तथा । द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत्
चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते
प्रोक्तपर्वस्वशेषेषु नैव भूपाल सन्ध्ययोः । गच्छेद्व्यवायं मनसा न मूत्रोच्चारपीडितः
पर्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप । भुवि रोगावहो नॄणामप्रशस्तो जलाशये
परदारान्न गच्छेत मनसापि कथञ्चन । किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवायिनाम्
मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः । परदाररतिः पुंसामिह चामुत्र भीतिदा
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्वनृतावपि
(गृहस्थाचारकथनम्) और्व उवाच देवगोब्राहमणान् सिद्धान् वृद्धाचार्यांस्तथार्चयेत् । द्विकालञ्च नमेत् सन्ध्यामग्नीनुपचरेत् तथा
सदानुपहते वस्त्रे प्रशस्ताश्च महौषधीः । गारुडानि च रत्नानि बिभृयात् प्रयतो नरः
प्रस्निग्धामलकेशश्च सुगन्धिश्चारुवेषधृक् । सिताः सुमनसो हृद्या बिभृयाच्च नरः सदा
किञ्चित् परस्वं न हरेन्नाल्पमप्यप्रियं वदेत् । प्रियञ्च नानृतं ब्रूयान्नान्यदोषानुदीरयेत्
नान्यश्रियं तथा वैरं रोचयेत् पुरुषर्षभ । न दुष्टं यानमारोहेत् कूलच्छाया न संश्रयेत्
विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः । बन्धकी बन्धकीभर्तुः क्षुद्रानृतकथैस्सह
तथातिव्ययशीलैश्च परिवादरतैश्शठैः । बुधो मैत्रीं न कुर्वीत नैकः पन्थानमाश्रयेत्
नावगाहेज्जलौघस्य वेगमग्रे नरेश्वर । प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः
न कुर्याद्दन्तसङ्घर्षं कुष्णीयाच्च न नासिकाम् । नासंवृतमुखो जृम्भेच्छ्वासकासौ विसर्जयेत्
नोच्चैर्हसेत् सशब्दं च न मुञ्चेत् पवनं बुधः । नखान्न खादयेच्छिन्द्यान्न तृणं न महीं लिखेत्
न श्मश्रु भक्षयेल्लोष्टं न मृद्नीयाद्विचक्षणः । ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो
नग्नां परस्त्रियं चैव सूर्यं चास्तमयोदये । न हुङ्कुर्याच्छवं गन्धं शवगन्धो हि सोमजः