तस्यां च मध्यरात्रौ निवृत्तायां मंत्रपूतजलपूर्णं कलशं वेदिमध्ये निवेश्य ते मुनयः सुषुपुः
सुप्तेषु तेषु अतीव तृट्परीतस्स भूपालस्तमाश्रमं विवेश
सुप्तांश्च तानृषीन्नैवोत्थापयामास
तच्च कलशमपरिमेयमाहात्म्यमंत्रपूतं पपौ
प्रबुद्धाश्च ऋषयः पप्रछुः केनैतं मंत्रपूतं वारि पीतम्
अत्र हि राज्ञो युवनाश्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति । इत्याकर्ण्ये स राजा अजानता मया पीतमित्याह
गर्भश्च युवनाश्वस्योदरे अभवत्क्रमेण च ववृधे
प्राप्तसमयश्च दक्षिणांगुष्ठेन कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम
स चासौ राजा ममार
जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः
अथागत्य देवराजोब्रवीत् मामयं धास्यतीति
ततो माधातृनामा सोभवत् । वक्त्रे चास्य प्रदेशिनी न्यस्ता देवेंद्रे ण न्यस्तातां पपौ
तां चामृतस्राविणीमास्वाद्याह्नैव स व्यवर्द्धत
ततस्तु मांधाता चक्रवर्त्ती सप्तद्वीपां महीं वुभुजे
तत्रायं श्लोकः
यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति । सर्वं तद्यौवनाश्वस्य मांधातुः क्षेत्रमुच्यते
मांधाता शतबिंदोर्दुहितरं बिंदुमतीमुपयेमे
पुरुकुत्समंबरीषं मुचुकुंदं च तस्यां पुत्रत्रयमुत्पादयामास
पंचाशद्दुहितरस्तस्यामेव तस्य नृपतेर्बभूवुः
एकस्मिन्नंतरे बह्वृचश्च सौभरिर्नाम महर्षिरंतर्जले द्वादशाब्दं कालमुवास ६९ तत्र चांतर्जले संमदो नामातिबहु- प्रजोतिमात्रप्रमाणो मीनाधिपतिरासीत्
तस्य च पुत्रपौत्रदौहित्राः पृष्ठतोऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमंतस्तेनैव सदाहर्निशमतिनिर्वृत्ता रेमिरे
स चापत्यस्पर्शोपचीयमानप्रहर्षप्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतस्तैरात्मजपुत्रपौत्रदौहित्रादिभिः सहानुदिनं सुतरां रेमे
अथांतर्जलावस्थितस्सौभरिरेकाग्रतस्समाधिमपहायानुदिनं तस्य सत्स्यस्यात्मजपुत्रपौत्रदौहित्रादिभिस्सहातिरमणीयतामवेक्ष्याचिंतयत्
अहो धन्योयमीदृशमनभिमतं योन्यंतरमवाप्यैभिरात्मजपुत्रपौत्रदौहित्रादिभिस्सह रममाणोतीवास्माकं स्पृहामुत्पादयति
वयमप्येवं पुत्रादिभिस्सह ललितं रमिष्याम इत्येवमभिकांक्षन् स तस्मादंतर्जलान्निष्क्रम्य संतानाय निवेष्टुकामः कन्यार्थं मांधातारं राजानमगच्छत्
आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना संपूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम्
सौभरिरुवाच। निवेष्टुकामोऽस्मि नरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभांक्षीः । न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशो! विमुखाः प्रयांति
अन्येपि संत्येव नृपाः पृथिव्यां मांधातरेषां तनयाः प्रसूताः । किं त्वर्थिनामर्थितदानदीक्षाकृतव्रतश्लाघ्यमिदं कुलं ते
शतार्धसंख्यास्तव संति कन्यास्तासां ममैकां नृपते प्रयच्छ । यत्प्रार्थनाभंगभयाद्बिभेमि तस्मादहं राजवरातिदुःखात्
श्रीपराशर उवाच । इति ऋषिवचनमाकर्ण्य स राजा जराजर्जरितदेहमृषिमालोक्य प्रत्याख्यानकातरस्तस्माच्च शापभीतो बिभ्यत्किंचिदधोमुखश्चिरं दध्यौ च