इत्याकर्ण्य समस्तदेवैरिंद्रे ण च बाढमित्येवं समन्विच्छितम्
ततश्च शतक्रतोर्वृषरूपधारिणः ककुदि स्थितोऽतिरोषसमन्वितो भगवतश्चराचरगुरोरच्युतस्य तेजसाप्यायितो देवासुरसंग्रामे समस्तानेवासुरान्निजघान
यतश्च वृषभककुदि स्थितेन राज्ञा दैतेयबलं निषूदितमतश्चासौ ककुत्स्थसंज्ञामवाप
ककुत्स्थस्याप्यनेनाः पुत्रोऽभवत्
पृथुरनेनसः
पृथोर्विष्टराश्वः
तस्यापि चांद्रो युवनाश्वः
चांद्र स्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास
शावस्तस्य बृहदश्वः
तस्यापि कुवलयाश्वः
योसावुदकस्य महर्षेरपकारिणं दुंदुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्रैरेकविंशद्भिः परिवृतो जघान दुंदुमारसंज्ञामवाप
तस्य च तनयास्समस्ता एव दुंदुमुखनिश्वासाग्निना विप्लुष्टा विनेशुः
दृढाश्वचंद्रा श्वकपिलाश्वाश्च त्रयः केवलं शो!षिताः
वृढाश्वाद्धर्यश्वः
तस्माच्च निकुंभः
निकुंभस्यामिताश्वः
ततश्च कृशाश्वः
तस्माच्च प्रसेनजित्
प्रसेनजितो युवनाश्वोभवत्
तस्य चापुत्रस्यातिनिर्वेदान्मुनीनामाश्रममंडले निवसतो दयालुभिर्मुनिभिरपत्योत्पादनायेष्टः कृता
तस्यां च मध्यरात्रौ निवृत्तायां मंत्रपूतजलपूर्णं कलशं वेदिमध्ये निवेश्य ते मुनयः सुषुपुः
सुप्तेषु तेषु अतीव तृट्परीतस्स भूपालस्तमाश्रमं विवेश
सुप्तांश्च तानृषीन्नैवोत्थापयामास
तच्च कलशमपरिमेयमाहात्म्यमंत्रपूतं पपौ
प्रबुद्धाश्च ऋषयः पप्रछुः केनैतं मंत्रपूतं वारि पीतम्
अत्र हि राज्ञो युवनाश्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति । इत्याकर्ण्ये स राजा अजानता मया पीतमित्याह
गर्भश्च युवनाश्वस्योदरे अभवत्क्रमेण च ववृधे
प्राप्तसमयश्च दक्षिणांगुष्ठेन कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम
स चासौ राजा ममार
जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः