शशादस्य तस्य पुरंजयोनाम पुत्रोभवत्
तस्येदं चान्यत्
पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत्
तत्र चातिबलिभिरसुरैरमराः पराजितास्ते भगवंतं विष्णुमाराधयांचक्रुः
प्रसन्नश्च देवानामनादिनिधनोखिलजगत्परायणो नारायणः प्राह
ज्ञातमेतन्मया युष्माभिर्यदभिलषितं तदर्थमिदं श्रूयताम्
पुरंजयो नाम राजर्षेश्शशादस्य तनयः क्षत्त्रियवरो यस्तस्य शरीरेहमंश्नो स्वयमेवावतीर्य तानश्षोआ!नसुरान्निहनिष्यामि तद्भवद्भिः पुरंजयोऽसुरवधार्थमुद्योगं कार्यतामिति
एतच्च श्रुत्वा प्रणम्य भगवंतं विष्णुममराः पुरंजयसकाशमाजग्मुरूचुश्चैनम्
भोभोः क्षत्त्रियवर्यास्माभिरभ्यर्थितेन भवतास्माकमरातिवधोद्यतानां कर्तव्यं साहाय्यमिच्छामः तद्भवतास्माकमभ्यागतानां प्रणयभंगो न कार्य इत्युक्तः पुरंजयः प्राह
त्रैलोक्यनाथो योयं युष्माकमिंद्र ः! शतक्रतुरस्य यद्यहं स्कंधाधिरूढो युष्माकमरातिभस्सह योत्स्ये तदहं भवतां सहायः स्याम्
इत्याकर्ण्य समस्तदेवैरिंद्रे ण च बाढमित्येवं समन्विच्छितम्
ततश्च शतक्रतोर्वृषरूपधारिणः ककुदि स्थितोऽतिरोषसमन्वितो भगवतश्चराचरगुरोरच्युतस्य तेजसाप्यायितो देवासुरसंग्रामे समस्तानेवासुरान्निजघान
यतश्च वृषभककुदि स्थितेन राज्ञा दैतेयबलं निषूदितमतश्चासौ ककुत्स्थसंज्ञामवाप
ककुत्स्थस्याप्यनेनाः पुत्रोऽभवत्
पृथुरनेनसः
पृथोर्विष्टराश्वः
तस्यापि चांद्रो युवनाश्वः
चांद्र स्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास
शावस्तस्य बृहदश्वः
तस्यापि कुवलयाश्वः
योसावुदकस्य महर्षेरपकारिणं दुंदुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्रैरेकविंशद्भिः परिवृतो जघान दुंदुमारसंज्ञामवाप
तस्य च तनयास्समस्ता एव दुंदुमुखनिश्वासाग्निना विप्लुष्टा विनेशुः
दृढाश्वचंद्रा श्वकपिलाश्वाश्च त्रयः केवलं शो!षिताः
वृढाश्वाद्धर्यश्वः
तस्माच्च निकुंभः
निकुंभस्यामिताश्वः
ततश्च कृशाश्वः
तस्माच्च प्रसेनजित्
प्रसेनजितो युवनाश्वोभवत्
तस्य चापुत्रस्यातिनिर्वेदान्मुनीनामाश्रममंडले निवसतो दयालुभिर्मुनिभिरपत्योत्पादनायेष्टः कृता