तां रेवतीं रैवतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे । दत्त्वाथ कन्यां स नृपो जगाम हेमालयं वै तपसे धृतात्मा
श्रीपराशर उवाच । यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं निजघ्नुः
तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे
तदन्वयाश्च क्षत्रियास्सर्वदिक्ष्वभवन्
वृष्टस्यापि वार्ष्टकं क्षत्त्रमभवत्
नाभागस्यात्मजो नाभागसंत्रोभवत्
तस्याप्यंबरीषः
अंबरीषस्यापि विरूपोभवत्
विरूपात्पृषदश्वो जज्ञे
ततश्च रथीतरः
अत्रायं श्लोकः । एते क्षत्रप्रसूता वै पुनश्चांगिरसाः स्मृताः । रथीतराणां प्रवराः क्षत्त्रोपेता द्विजातयः इति
क्षुतवतश्च मनोरिक्ष्वाकुः पुत्रो जज्ञे घ्राणतः
तस्य पुत्रशतप्रधाना विकुक्षिनिमिदंडाख्यास्त्रयः पुत्रा बभूवुः
शकुनिप्रमुखाः पंचाशत्पुत्राः उत्तरापथरक्षितारो बभूवुः
चत्वारिंशदष्टौ च दक्षिणापथभूपालाः
स चेक्ष्वाकुरष्टकायाश्श्राद्धमुत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिमाज्ञापयामास
स तथेति गृहीताज्ञो विधृतशरासनो वनमभ्येत्यानेकशो मृगान् हत्वा श्रांतोतिक्षुत्परीतो विकुक्षिरेकं शशमभक्षयत् । श्षॐ च मांसमानीय पित्रे निवेदयामास
इक्ष्वाकुकुलाचार्यो वशिष्ठस्तत्प्रोक्षणाय चोदितः प्राह । अलमनेनामेध्येनामिषेण दुरात्मना तव पुत्रेणैतन्मांसमुपहतं यतोऽनेन शशो भक्षितः
ततश्चासौ विकुक्षिर्गुरुणैवमुक्तश्शशादसंज्ञामवाप पित्रा च परित्यक्तः
पितर्युपरते चासावखिलामेतां पृथ्वीं धर्मतश्शाशास
शशादस्य तस्य पुरंजयोनाम पुत्रोभवत्
तस्येदं चान्यत्
पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत्
तत्र चातिबलिभिरसुरैरमराः पराजितास्ते भगवंतं विष्णुमाराधयांचक्रुः
प्रसन्नश्च देवानामनादिनिधनोखिलजगत्परायणो नारायणः प्राह
ज्ञातमेतन्मया युष्माभिर्यदभिलषितं तदर्थमिदं श्रूयताम्
पुरंजयो नाम राजर्षेश्शशादस्य तनयः क्षत्त्रियवरो यस्तस्य शरीरेहमंश्नो स्वयमेवावतीर्य तानश्षोआ!नसुरान्निहनिष्यामि तद्भवद्भिः पुरंजयोऽसुरवधार्थमुद्योगं कार्यतामिति
एतच्च श्रुत्वा प्रणम्य भगवंतं विष्णुममराः पुरंजयसकाशमाजग्मुरूचुश्चैनम्
भोभोः क्षत्त्रियवर्यास्माभिरभ्यर्थितेन भवतास्माकमरातिवधोद्यतानां कर्तव्यं साहाय्यमिच्छामः तद्भवतास्माकमभ्यागतानां प्रणयभंगो न कार्य इत्युक्तः पुरंजयः प्राह
त्रैलोक्यनाथो योयं युष्माकमिंद्र ः! शतक्रतुरस्य यद्यहं स्कंधाधिरूढो युष्माकमरातिभस्सह योत्स्ये तदहं भवतां सहायः स्याम्