सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना । दिनं नयेत् ततस्सन्ध्यामुपतिष्ठेत् समाहितः
दिनान्तसन्ध्यां सूर्येण पूर्वामृक्षैर्युतां बुधः । उपतिष्ठेद्यथान्याय्यं सम्यगाचम्य पार्थिव
सर्वकालमुपस्थानं सन्ध्ययोः पार्थिवेष्यते । अन्यत्र सूतकाशौचविभ्रमातुरभीतितः ॥१०१। सूर्येणाभ्युदितो यश्च त्यक्तः सूर्येण वा स्वपन् । अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः
तस्मादनुदिते सूर्ये समुत्थाय महीपते । उपतिष्ठेन्नरस्सन्ध्यामस्वपंश्च दिनान्तजाम्
उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् । व्रजन्ति ते दुरात्मानस्तमिस्रं नरकं नृप
पुनः पाकमुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तं वै पत्न्यमन्त्रं बलिं हरेत्
तत्रापि श्वपचादिभ्यस्तथैवान्नविसर्जनम्
अतिथिं चागतं तत्र स्वशक्तया पूजयेद्बुधः । पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् । ततश्चान्नप्रदानेन शयनेन च पार्थिव
दिवातिथौ तु विमुखे गते यत्पातकं नृप । तदेवाष्टगुणं पुंसस्सूर्योढे विमुखे गते
तस्मात् स्वशक्त्या राजेन्द्र सूर्योढमतिथिं नरः । पूजयेत् पूजिते तस्मिन् पूजितास्सर्वदेवताः
अन्नशाकाम्बुदानेन स्वशक्त्या पूजयेत् पुमान् । शयनप्रस्तरमहीप्रदानैरथवापि तम्
कृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही । गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप
नाविशालां न वै भुग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्यामधितिष्ठेदनास्तृताम्
प्राच्यां दिशि शिरश्शस्तं याम्यायामथ वा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम्
ऋतावुपगमश्शस्तस्स्वपत्न्यामवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु
नाद्यूनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् । नानिष्टां न प्रकुपितां न त्रस्तां न च गर्भिणीम्
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् । क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर्गुणैर्युतः
स्नातस्स्रग्गन्धधृक् प्रीतो नाध्मातः क्षुधितोऽपि वा । सकामस्सानुरागश्च व्यवायं पुरुषो व्रजेत्
चतुर्दश्यष्टमी चैव तथामा चाथ पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसङ्क्रान्तिरेव च
तैलस्त्रीमांससम्भोगी सर्वेष्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः
अशेषपर्वस्वेतेषु तस्मात् संयमिभिर्बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः
नान्ययोनावयोनौ वा नोपयुक्तौषधस्तथा । द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत्
चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते
प्रोक्तपर्वस्वशेषेषु नैव भूपाल सन्ध्ययोः । गच्छेद्व्यवायं मनसा न मूत्रोच्चारपीडितः
पर्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप । भुवि रोगावहो नॄणामप्रशस्तो जलाशये
परदारान्न गच्छेत मनसापि कथञ्चन । किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवायिनाम्
मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः । परदाररतिः पुंसामिह चामुत्र भीतिदा
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्वनृतावपि
(गृहस्थाचारकथनम्) और्व उवाच देवगोब्राहमणान् सिद्धान् वृद्धाचार्यांस्तथार्चयेत् । द्विकालञ्च नमेत् सन्ध्यामग्नीनुपचरेत् तथा
सदानुपहते वस्त्रे प्रशस्ताश्च महौषधीः । गारुडानि च रत्नानि बिभृयात् प्रयतो नरः