सोमदत्तः कृशाश्वाज्जज्ञे योश्वमेधानां शतमाजहार
तत्पुत्रो जनमेजयः
जनमेजयात्सुमतिः
एते वैशालिका भूभृतः
श्लोकोप्यत्र गीयते
तृणबिंदोः प्रसादेन सर्वे वैशालिका नृपाः । दीर्घायुषो महात्मानो वीर्यवंतोतिधार्मिकाः
शर्यातेः कन्या सुकन्यानामाभवत् यामुपयेमे च्यवनः
आनर्त्तनामा परमधार्मिकश्शर्यातिपुत्रोभवत्
आनर्त्तृस्यापि रेवतनामा पुत्रो जज्ञे योसावानर्त्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास
रेवतस्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रोतृशतस्य ज्योष्ठोऽभवत्
तस्य रेवतीनाम कन्याभवत्
स तामादाय कस्योयमर्हतीति भगवंतमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम
तावच्च ब्रह्मणॐतिके हाहाहूहूसंज्ञाभ्यां गंधर्वाभ्यामतितानं नाम दिव्यं गांधर्वमगीयत
तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतश्शृण्वन्मुहूर्त्तमिव मेने
गीतावसाने च भगवंतमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत्
ततश्चासौ भगवानकथयत्कथय योभिमतस्ते वर इति
पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनस्स वरान् कथयामास । क एषां भगवतोभिमत इति यस्मै कन्यामिमां प्रयच्छामीति
ततः किंचिदवनतशिरास्सस्मितं भगवानब्जयोनिराह
य एते भवतोभिमता नैतेषां सांप्रतं पुत्रपौत्रापत्यापत्यसंततिरस्त्यवनीतले
बहूनि तवात्रैव गांधर्वं शृण्वतश्चतुर्यगान्यतीतानि सांप्रतं
महीतलेष्टाविंशतितममनोश्चतुर्युगमतीतप्रायं वर्तते
आसन्नो हि कलिः
अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाभिमताय देयम्
भवतोपि पुत्रमित्त्रकलत्रमंत्रिभृत्यबंधुबलकोशादयस्समस्ताः कालेनैतेनात्यंतमतीताः
ततः पुनरप्युत्पन्नसाध्वसो राजा भगवंतं प्रणम्य पप्रच्छ
भगवन्नेवमवस्थिते म येयं कस्मै देयेति
ततस्स भगवान् किंचिदवनम्रकंधरः कृतांजलिर्भूत्वा सर्वलोकगुरुरंभोजयोनिराह
ब्रह्मोवाच । न ह्यादिमध्यांतमजस्य यस्य विद्मो वयं सर्वमयस्य धातुः । न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य
कलामुहूर्त्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः । अजन्मनाशस्य सदैकमूर्त्तेरनामरूपस्य सनातनस्य
यस्य प्रसादादहमच्युतस्य मूर्त्तिः प्रजासृष्टिकरॐतकारी । क्रोधाच्च रुद्र ः! स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात्