चक्षुषाच्चातिबलपराक्रमो विंशोभवत्
ततो विविंशकः
तस्माच्च खनिनेत्रः
ततश्चातिविभूतिः
अतिविभूतेरतिबलपराक्रमः करंधमः पुत्रोभवत्
तस्मादप्यविक्षित्
अविक्षितोप्यतिबलपराक्रमः पुत्रो मरुत्तो नामाऽभवत् । यस्येमावद्यापि श्लोकौ गीयेत्
मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि । सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम्
अमाद्यदिंद्र स्सोमेन दक्षिणाभिर्द्विजातयः । मरुतः परिवेष्टारस्सदस्याश्च दिवौकसः
स मरुत्तश्चक्रवर्त्ती नरिष्यंतनामानं पुत्रमवाप
तस्माच्च दमः
दमस्य पुत्रो राजवर्धनो जज्ञे
राजवर्द्धनात्सुवृद्धिः
सुवृद्धेः केवलः
केवलात्सुधृतिरभूत्
तस्माच्चंद्र ः!
ततः केवलोभूत्
केवलाद्बंधुमान्
बंधुमतो वेगवान्
वेगवतो बुधः
ततश्च तृणबिंदुः
तस्याप्येका कन्या इलविलानाम
ततश्चालंबुसानाम वराप्सरास्तृणबिंदुं भेजे
तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालं निर्ममे
हेमचंद्रश्च विशालस्य पुत्रोभवत्
ततश्चंद्रः
तत्तनयो धूम्राक्षः
तस्यापि सृंजयोऽभूत्
सृंजयात्सहदेवः
ततश्च कृशाश्वो नाम पुत्रोभवत्