तद्यथा सकलजगतामादिरनादिभूतस्स ऋग्यजुस्सामादिमयो भगवान् विष्णुस्तस्य ब्रह्मणो मर्त्तं रूपं हिरण्यगर्भो ब्रह्मांडभूतो ब्रह्मा भगवान् प्राग्बभूव
ब्रह्मणश्च दक्षिणांगुष्ठजन्मा दक्षप्रजापतिः दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः
मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यंतप्रांशुनाभगदिष्टकरूषपृषध्राख्या दश पुत्रा बभूवुः
इष्ठिं च मित्रावरुणयोर्मनुः पुत्रकामश्चकार
तत्र तावदह्नुते होतुरपचारादिला नाम कन्या बभूव
सैव च मित्रावरुणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत्
पुनश्चेश्वरकोपात्स्त्री सती सा तु सोमसूनोर्बुधस्याश्रमसमीपे बभ्राम
सानुरागाच्च तस्यां बुधः पुरूरवसमात्मजमुत्पादयामास
जातेपि तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋङ्मयो यजुर्मयस्साममयोथर्वणमयस्सर्ववेदमयो मनोमयो ज्ञानमयो न किंचिन्मयोन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिर्यथावदिष्टस्तत्प्रसादादिला पुनरपि सुद्युम्नोऽभवत्
तस्याप्युत्कलगयविनतास्त्रयः पुत्रा बभूवुः
सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्रा ज्यभागं न लेभे
तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठानं नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात्
तदन्वयाश्च क्षत्त्रियास्सर्वै दिक्ष्वभवन् । पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छूद्र त्वमगमत्
मनोः पुत्रः करूषः करूषात्कारूषाः क्षत्त्रिया महाबलपराक्रमा बभूवः
दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्बलंधनः पुत्रोभवत्
बलंधनाद्वत्सप्रीतिरुदारकीर्त्तिः
वत्सप्रीतेः प्रांशुरभवत्
प्रजापतिश्च प्रांशोरेकोऽभवत्
ततश्च खनित्रः
तस्माच्चक्षुषः
चक्षुषाच्चातिबलपराक्रमो विंशोभवत्
ततो विविंशकः
तस्माच्च खनिनेत्रः
ततश्चातिविभूतिः
अतिविभूतेरतिबलपराक्रमः करंधमः पुत्रोभवत्
तस्मादप्यविक्षित्
अविक्षितोप्यतिबलपराक्रमः पुत्रो मरुत्तो नामाऽभवत् । यस्येमावद्यापि श्लोकौ गीयेत्
मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि । सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम्
अमाद्यदिंद्र स्सोमेन दक्षिणाभिर्द्विजातयः । मरुतः परिवेष्टारस्सदस्याश्च दिवौकसः
स मरुत्तश्चक्रवर्त्ती नरिष्यंतनामानं पुत्रमवाप