नरेन्द्र! स्मर्यतामात्मा ह्मलं ते गृध्रचेष्टया । पाषण्डालापजातोऽयं दोषो यदूगृध्रता गतः
ततः काकत्वमापन्नं समनन्तरजन्मति । उवाच तन्वी भर्त्तारमुपलभ्यात्मयोगतः
अशेषा भूभृतः पूर्वं वश्या यस्मै बलिं ददुः । सत्वं काकत्वमापन्नो जातोऽद्य बलिभुक् प्रभो
एवमेव च काकात्वे स्मारितः स पुरातनम् । तत्याज भूपतिः प्राणान् मयूरत्वमवाप च
मयूरत्वं ततः सा वै चकारानुगतिं शुभा । दत्तैः प्रतिक्षणां ह्टद्यस्तृप्त तज्जातिभोजनेः
ततस्तु जनको राजा वाजिमेधं महाक्रतुम् । चकार तस्यावभृथे स्त्रपयामास तं तदा
सस्त्रौ स्वयं च तन्वङ्गी स्मारयामास चापि तम् । यथासौ श्वश्वृगालाद्या योनीर्जग्राह पार्थिवः
स्मृतजन्मक्रमः सोऽथ तत्याज स्व कलेवरम् । जज्ञ स जनकस्यैव पुत्रोऽसौ सुमहात्मनः
ततः सा पितरं तन्वी विवहार्थमचोदयत् । स चापि कारयामास तस्या राजा स्वयवरम्
स्वयंवरे कृते सा तं सम्प्राप्तं पतिमात्मनः । वपरयामास भूयोऽपि भर्तृ भावेन भामिनी
बुभुजे च तया सार्द्ध सम्भोगान्नृपनन्दनः । पितर्य्युपरते राज्यं विदेहेषु चकार सः
इयाज यज्ञान् सुबहुन् ददौ दानानि चार्थिनाम् । पुत्रानुत्पादयामास युयुधे च सहारिबिः
राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुन्धराम् । तत्याज स प्रियान् प्राणान् संग्रामे धर्मतो नृपः
ततश्वितास्थं तं भूयो भर्त्तारं सा शुभेक्षणा । अन्वारुरोह विधिवद् यथापूर्वं मुदा सती
ततोऽवाप तया सार्द्धं राजपुत्र्या स पार्थिवः । ऐन्दानतीत्यवै लोकान् लोकान् कामदुहोऽक्षयान्
स्वर्गाक्षयत्वमतुलं दाम्पत्यमतिदुर्लभम् । प्राप्त पुण्यफलं प्राप्य संशुद्धिं तां द्रिजोत्तम
एष पाषण्डसम्भाषाद्दोषः प्रोक्तो मया द्रिज । तथाश्वमेधावबृथस्त्रानमाहात्म्यमेव च
तस्मात् पाषण्डिभिः पापैरालापस्पर्शनं त्यजेत् । विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः
क्रियाहानिर्गृ हे यस्य मासमेकं प्रजायते । तस्यावलोकनात् सूर्यं पश्येत मतिमान् नरः
किं पुनर्यैस्तु सत्यक्ता त्रयी सर्वात्मना द्रिज । परान्नभोजिभिः पापैर्वेदवादविरोधिबिः
सहालापस्तु संसर्गः सहास्या चातिपापिनी । पाषण्डिबिर्दुराचारैस्तस्मात्ताः परिवर्जयेत्
पाषण्डिनो विकर्मस्थान् वैडालब्रतिकाञ्छठान् । हैतुकान् वकवृत्तींश्व वाङूमात्रेणापि नार्चयेत्
दूरादपास्तः सम्पर्कः सहस्यापि च पापिभिः । पाषण्डिभिर्दुराचारैस्तस्मात्ताः परिवर्जयेत्
एते नग्नास्तवाख्याता दृष्टया श्राद्धोपघातकाः । येषां सम्भाषणात् पुंसां दिनपुण्यं प्रणश्यति
एते पाषणिडनः पापा न ह्म तानालपेदू बुधः । पुण्यं नश्यति सम्भाषादेतेषां तद्दिनोद्भवम्
पुं सां जटाधरणमौण्डयवतां वृथैव । मोघाशिनामखिलशौचनिराकृतानाम् तोयप्रदानपितृपिण्डबहिष्कृतानां सम्भाषणादपि नरा नरकं प्रयान्ति
मैत्रेय उवाच। भगवन्यन्नरैः कार्य्यं साधुकर्मण्यवस्थितैः । तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम्
वर्णधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च । श्रोतुमिच्छाम्यहं वंशं राज्ञां तद्ब्रूहि मे गुरो
श्रीपराशर उवाच । मैत्रेय श्रूयतामयमनेकयज्वशूरवीरधीरभूपालालंकृतो ब्रह्मादिर्मानवो वंशः
तदस्य वंशस्यानुपूर्वीमश्षोवंशपापप्रणाशनाय मैत्रेयैतां कथां शृणु