समागम्य यथान्यायं दम्पती तौ यथाविधि । विष्णोः पूजादिकं सर्वं कृतवन्तौ द्रिजोत्तम
कालेन गच्छता राजा ममारासौ सपत्रजित् । अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम्
स तु तेनापचारेण श्वा जज्ञ वसुधाधिपः । उपोषितेन पाषण्जसंलापी यः कृतोऽभवत्
सा तु जातिस्मरा जज्ञ काशीराजसुता शुभा । सर्वविझानमम्पूर्णा सर्वलक्षणपूजिता
तां पिता दातुकामोऽभूत् वराय विनिवारितः । तयैव तन्व्या विरतो विवाहारम्भतो नृपः
ततः सा दिव्यया दृष्टया दृष्ट्वा श्वानं निजं पतिम् । विदिशाख्यं पुरं गत्वा तदवस्थ ददर्शतम्
तं दृष्ट्ववै महाभागं श्वबूतन्तु पतिं तथा । ददौ तस्मै वराहार सत्कारप्रवणां सुभम
भुञ्जन् दत्तं तया सोऽन्नमतिमृष्टमभीप्सितम् । स्वजातिललितं कुर्वन् बहु चाटु चकार वै
अतीव व्रीडिता बाला कुर्वता चाटु तेन सा । प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम्
स्मर्य्यतां तन्महाराज ! दाक्षिण्यललितं त्वया । येन श्वयोनिमापन्नो मम चाटुकरो भवान्
पाषण्डिनं समाभाष्य तीर्थस्त्रानादनन्तरम् । प्राप्तोऽसि कुत्सितां योनिं किं न स्मरसि तत्प्रभो
तयैवं स्मारिते तस्मिन् पूर्वजातिकृते तदा । दध्यौ चिरमथावाप निर्वेदमतिदुर्लभम
निर्विण्णाचित्त- स ततो निगम्य नगरादू बहिः । मरुप्रपतनं कृत्वा शार्गालीं योनिमागतः
सापि द्रितीये सम्प्राप्ते वर्षे दित्येन चक्षुषा । ज्ञात्वा श्वृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम्
तत्रापि दृष्ट्वा तं प्राह शार्गालीं योनिमागतम् । भर्त्तारमतिचार्वङ्गी तनया पृथितीपतेः
अपि स्मरसि राजेन्द्र! श्वयोनिस्थस्य यन्मया । प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम्
पुनस्तयोक्तस्यजूज्ञात्वा सत्यं सत्यवतां वरः । कालेन स निराहारस्तत्याज स्वं कलेवरम्
भूयस्ततो वृकं जातं गत्वा तं निर्जने वने । स्मारयामास भर्त्तारं पूर्ववृत्तमनिन्दिता
न त्वं वृको महभाग! राजा शतधनुर्भवान् । श्वा भूत्वा त्वं श्वृगालोऽबूर्वृकत्वं साम्प्रतं गतः
स्मारितेन यदा त्यक्तस्तेनात्मा गृद्रतां गतः । अवाप सा पुनश्चैनं बोधयामास भाविनी
नरेन्द्र! स्मर्यतामात्मा ह्मलं ते गृध्रचेष्टया । पाषण्डालापजातोऽयं दोषो यदूगृध्रता गतः
ततः काकत्वमापन्नं समनन्तरजन्मति । उवाच तन्वी भर्त्तारमुपलभ्यात्मयोगतः
अशेषा भूभृतः पूर्वं वश्या यस्मै बलिं ददुः । सत्वं काकत्वमापन्नो जातोऽद्य बलिभुक् प्रभो
एवमेव च काकात्वे स्मारितः स पुरातनम् । तत्याज भूपतिः प्राणान् मयूरत्वमवाप च
मयूरत्वं ततः सा वै चकारानुगतिं शुभा । दत्तैः प्रतिक्षणां ह्टद्यस्तृप्त तज्जातिभोजनेः
ततस्तु जनको राजा वाजिमेधं महाक्रतुम् । चकार तस्यावभृथे स्त्रपयामास तं तदा
सस्त्रौ स्वयं च तन्वङ्गी स्मारयामास चापि तम् । यथासौ श्वश्वृगालाद्या योनीर्जग्राह पार्थिवः
स्मृतजन्मक्रमः सोऽथ तत्याज स्व कलेवरम् । जज्ञ स जनकस्यैव पुत्रोऽसौ सुमहात्मनः
ततः सा पितरं तन्वी विवहार्थमचोदयत् । स चापि कारयामास तस्या राजा स्वयवरम्
स्वयंवरे कृते सा तं सम्प्राप्तं पतिमात्मनः । वपरयामास भूयोऽपि भर्तृ भावेन भामिनी