तस्मादेतान्नरो नग्रांस्त्रयीसन्त्यागदूषितान् । सर्वदा वर्जयेत् प्राज्ञ आलापस्पशेनादिषु
श्रद्धावद्भिः कृतं यत्राद्द वान् पितृपितामहान् । न प्रीणयति तच्छ्राद्ध यदेभिरवलोकितम्
श्रूयते च पुरा ख्यातो राजा शतधनुर्भुवि । पत्री च शैव्या तस्याभूदतिधर्मपरायणा
पतिव्रता महाभागा सत्यशौचदयान्विता । सर्वलक्षणसम्पन्ना विनयेन नयेन च
स तु राजा तया सार्द्ध देवदेवं जनार्दनम् । आराधयामास विभुं परमेण समाधिना
होमैर्जपैस्तथा दानैरुपवासैश्व भक्तितः
पूजाबिश्वानुदिवसं तन्मना नान्यमानसः
एकदा तु समं स्नातौ तौ तु भार्यापती जले । बगीरथ्याः समुत्तीर्णौ कार्त्तिक्यां समुपोषितौ । पाषण्डिनमपश्येतामायान्तं सम्मुखं द्रिज
चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः । अतस्तदूगौरवात्तेन सहालापमथाकरोत्
न तु सा वागयता देवी तस्य पत्री पतिव्रता । उपोषितास्मीति रविं तस्मिन् दृष्टे ददर्श च
समागम्य यथान्यायं दम्पती तौ यथाविधि । विष्णोः पूजादिकं सर्वं कृतवन्तौ द्रिजोत्तम
कालेन गच्छता राजा ममारासौ सपत्रजित् । अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम्
स तु तेनापचारेण श्वा जज्ञ वसुधाधिपः । उपोषितेन पाषण्जसंलापी यः कृतोऽभवत्
सा तु जातिस्मरा जज्ञ काशीराजसुता शुभा । सर्वविझानमम्पूर्णा सर्वलक्षणपूजिता
तां पिता दातुकामोऽभूत् वराय विनिवारितः । तयैव तन्व्या विरतो विवाहारम्भतो नृपः
ततः सा दिव्यया दृष्टया दृष्ट्वा श्वानं निजं पतिम् । विदिशाख्यं पुरं गत्वा तदवस्थ ददर्शतम्
तं दृष्ट्ववै महाभागं श्वबूतन्तु पतिं तथा । ददौ तस्मै वराहार सत्कारप्रवणां सुभम
भुञ्जन् दत्तं तया सोऽन्नमतिमृष्टमभीप्सितम् । स्वजातिललितं कुर्वन् बहु चाटु चकार वै
अतीव व्रीडिता बाला कुर्वता चाटु तेन सा । प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम्
स्मर्य्यतां तन्महाराज ! दाक्षिण्यललितं त्वया । येन श्वयोनिमापन्नो मम चाटुकरो भवान्
पाषण्डिनं समाभाष्य तीर्थस्त्रानादनन्तरम् । प्राप्तोऽसि कुत्सितां योनिं किं न स्मरसि तत्प्रभो
तयैवं स्मारिते तस्मिन् पूर्वजातिकृते तदा । दध्यौ चिरमथावाप निर्वेदमतिदुर्लभम
निर्विण्णाचित्त- स ततो निगम्य नगरादू बहिः । मरुप्रपतनं कृत्वा शार्गालीं योनिमागतः
सापि द्रितीये सम्प्राप्ते वर्षे दित्येन चक्षुषा । ज्ञात्वा श्वृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम्
तत्रापि दृष्ट्वा तं प्राह शार्गालीं योनिमागतम् । भर्त्तारमतिचार्वङ्गी तनया पृथितीपतेः
अपि स्मरसि राजेन्द्र! श्वयोनिस्थस्य यन्मया । प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम्
पुनस्तयोक्तस्यजूज्ञात्वा सत्यं सत्यवतां वरः । कालेन स निराहारस्तत्याज स्वं कलेवरम्
भूयस्ततो वृकं जातं गत्वा तं निर्जने वने । स्मारयामास भर्त्तारं पूर्ववृत्तमनिन्दिता
न त्वं वृको महभाग! राजा शतधनुर्भवान् । श्वा भूत्वा त्वं श्वृगालोऽबूर्वृकत्वं साम्प्रतं गतः
स्मारितेन यदा त्यक्तस्तेनात्मा गृद्रतां गतः । अवाप सा पुनश्चैनं बोधयामास भाविनी