नानाप्रकारवचनं स तेषां युक्तियोजितम् । तथा तथा च तदूधर्मं तत्यजुस्ते यथा यथा
तेऽप्यन्येषां तथैवोचुरन्यैरन्ये तथोदिताः । मैभेय ! तत्यजुर्धर्मं वेदस्मृत्युदितं परम्
अन्यानप्यन्यपाषणडप्रकारैर्बहुभिर्द्रिज । दैतेयान् मोहयामास मायामोहोऽतिमोहकृत्
स्वल्पेनैव हि कालेन मायामोहेन तेऽसुराः । मोहितास्तत्यजुः सर्वां त्रयीमार्गाश्रितां कथाम्
केचिदूविनिन्दां वेदानां देवानामपरे द्रिज । यज्ञकर्मसलापस्य तथान्ये च द्रिजन्मनाम्
नैतदूयुक्तिसहं वाक्यं हिंसा धर्माय नेष्यते । हवींष्यनलदग्धानि फलायेत्यर्भकोदितम
यज्ञैरनेकैर्देवत्वमवाप्येन्द्रण भुज्यते । शम्यादि यदि चेत्काष्ठं तदूरं पत्रभुक् पशु
निहतस्य पशोर्यज्ञ स्वर्गप्रात्पिर्यदीष्यते । स्वपिता यजमानेन किन्नु तस्मान्न हन्यते
तृत्पये जायते पुसो भुक्तमन्येन चेत्ततः । कुर्याच्छ्राद्ध श्रद्धयान्नं न वहेयुः प्रवासिनः
जनश्रद्ध यमित्येतदवगम्य ततो वचः । उपेक्ष्य श्रेयसे वाक्यं रोचतां यन्मयेरितम्
न ह्माप्तवादा नभसो निपतन्ति महासुराः । युक्तिमद् वचनं ग्राह्म मयान्येश्व भवद्रिधैः
मायामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा । व्युत्थापिता यथा नैषां त्रयीं कश्विदरोचयत्
इत्थमुन्मार्गयातेषु तेषु दैत्येषु तेऽमराः । उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः
ततो देवासुरं युद्ध पुनरेवाभवद् द्रिज । हताश्व तेऽसुरा देवैः सन्मार्गपरिपन्थिनः
स्वधर्मकवचस्तषामभूदू यः प्रथमं द्रिय । तेन रक्षाभवत् पूर्वं नेशुर्नष्टे च तत्र ते
ततो मैत्रेय! तन्मार्गवर्त्तिनो येऽभवञ्जनाः । नग्रास्ते तैर्यतस्त्यक्तं त्रयीसंवरणां वृथा
ब्रह्मचारी गृहस्थस्व वानप्रस्थस्तथाश्रमाः । परिब्राडू वा चतुर्थोऽत्र पञ्चमो नोपपद्यते
यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राडू वापि मैत्रेय! स न्ग्रः पापकृन्नरः
नित्यानां कर्मणां विप्र! तस्य हानिरहर्निशम् । अकुर्वन् विहितं कर्म शक्तः पतति तद्दिने
प्रायश्वित्तेन महता शुद्धिमाप्रोत्यनापदि । पक्षं नित्यक्रियाहानेः कर्त्ता मैत्रेय! मानवः
संवत्सरं क्रियाहानिर्यस्य पु सोऽबिजायते । तस्यावलोकनात् यूर्यो निरीक्ष्यः साधुबिः सदा
स्पृष्टे स्त्रानं सचेलस्य शुद्धेर्हेतुर्महामते । पु सो भवति तस्योक्ता न शुद्धिः पापकर्मणः
देवर्षिपतृभूतानि यस्य निः श्वस्य वेश्मनि । प्रयान्त्यनर्चितान्यत्र लोके तस्मान्न पापकृत्
देवादिनिः श्वासहतं शरीरं यस्य वेश्म च । न तेन सङ्करं कुर्यादू गृहासनपरिच्छदैः
सम्भाषणानुप्रश्रादि सहास्यां चैव कुर्वतः । जायते तुल्यता तस्य तेनैव द्रिज । वत्सरम्
अत बुङू क्ते गृहे तस्य करोत्यास्मां तथासने । शेते चाप्येकशयने स सद्यस्तत्समो भवेत्
देवतापितृभूतानि तथानभ्यर्च्य योऽतिथीन् । भुङूक्ते स पातकं भुङू क्ते निष्कृतिस्तस्य कीदृशी
ब्राह्मणाद्यास्तु ये वर्णाः स्वधर्मादन्यतोमुखम् । यान्ति ते नग्रसंज्ञां तु हीनकर्मस्ववस्थिताः
चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसङ्करः । तत्रास्या साधु वृत्तीनामुपघाताय जायते
अनभ्यर्च्य ऋषीन् देवान् पितॄन् भूतातिथींस्तथा । यो भुङ् क्ते तस्य सम्भाषात् पतन्ति नरके नराः