परमार्थोऽयमत्यर्थं परमार्थो न चाप्ययम् कार्यमेतदकार्य्यञ्च नैतदेवं स्पुटं त्विदम् । दिग्वाससामयं धर्मो धर्मोऽयं बहुवाससाम्
इत्यनैकान्तवादञ्च मायामोहेन नैकधा । तेन दर्शयता दैत्याः स्वधर्मांस्त्याजिता द्रिज
अर्हतेमं महाधर्मं मायामोहेन ते यतः । प्रोक्तास्तमाश्रिता धर्ममार्हतास्तेन तेऽभवन्
त्रयीधर्मसमुत्सर्ग मायामोहेन तेऽसुराः । कारितास्तन्मया ह्मासंस्ततोऽन्ये तत्प्रबोधिताः
तैरप्यन्ये परे तैश्व तैरप्यन्ये परे च तैः । अल्पैरहोभिः सन्तयक्ता तैर्दैत्यैः प्रायशस्त्रयी
पुनश्व रक्ताम्बरधृङू मायामोहोऽजितेक्षिणः । अन्यानाहासुरान् गत्वा मृद्धल्पमधुराक्षरम्
स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थमथासुराः । तदलं पशुघातादिदुष्टधर्मैर्निबोधत
विज्ञानमयमेवैतदशेषमवगच्छत । बुध्यध्वं मे वचः सम्यगू बुधैरेवमुदीरितम्
जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् । रागादिदुष्टमत्यर्थं भ्राम्यते भवसङ्कटे
एवं बुध्यत बुध्यध्वं बुध्यतैवमितीरयन् । मायामोहः स दैतेयान् धर्ममत्याजयन्नजम्
नानाप्रकारवचनं स तेषां युक्तियोजितम् । तथा तथा च तदूधर्मं तत्यजुस्ते यथा यथा
तेऽप्यन्येषां तथैवोचुरन्यैरन्ये तथोदिताः । मैभेय ! तत्यजुर्धर्मं वेदस्मृत्युदितं परम्
अन्यानप्यन्यपाषणडप्रकारैर्बहुभिर्द्रिज । दैतेयान् मोहयामास मायामोहोऽतिमोहकृत्
स्वल्पेनैव हि कालेन मायामोहेन तेऽसुराः । मोहितास्तत्यजुः सर्वां त्रयीमार्गाश्रितां कथाम्
केचिदूविनिन्दां वेदानां देवानामपरे द्रिज । यज्ञकर्मसलापस्य तथान्ये च द्रिजन्मनाम्
नैतदूयुक्तिसहं वाक्यं हिंसा धर्माय नेष्यते । हवींष्यनलदग्धानि फलायेत्यर्भकोदितम
यज्ञैरनेकैर्देवत्वमवाप्येन्द्रण भुज्यते । शम्यादि यदि चेत्काष्ठं तदूरं पत्रभुक् पशु
निहतस्य पशोर्यज्ञ स्वर्गप्रात्पिर्यदीष्यते । स्वपिता यजमानेन किन्नु तस्मान्न हन्यते
तृत्पये जायते पुसो भुक्तमन्येन चेत्ततः । कुर्याच्छ्राद्ध श्रद्धयान्नं न वहेयुः प्रवासिनः
जनश्रद्ध यमित्येतदवगम्य ततो वचः । उपेक्ष्य श्रेयसे वाक्यं रोचतां यन्मयेरितम्
न ह्माप्तवादा नभसो निपतन्ति महासुराः । युक्तिमद् वचनं ग्राह्म मयान्येश्व भवद्रिधैः
मायामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा । व्युत्थापिता यथा नैषां त्रयीं कश्विदरोचयत्
इत्थमुन्मार्गयातेषु तेषु दैत्येषु तेऽमराः । उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः
ततो देवासुरं युद्ध पुनरेवाभवद् द्रिज । हताश्व तेऽसुरा देवैः सन्मार्गपरिपन्थिनः
स्वधर्मकवचस्तषामभूदू यः प्रथमं द्रिय । तेन रक्षाभवत् पूर्वं नेशुर्नष्टे च तत्र ते
ततो मैत्रेय! तन्मार्गवर्त्तिनो येऽभवञ्जनाः । नग्रास्ते तैर्यतस्त्यक्तं त्रयीसंवरणां वृथा
ब्रह्मचारी गृहस्थस्व वानप्रस्थस्तथाश्रमाः । परिब्राडू वा चतुर्थोऽत्र पञ्चमो नोपपद्यते
यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राडू वापि मैत्रेय! स न्ग्रः पापकृन्नरः
नित्यानां कर्मणां विप्र! तस्य हानिरहर्निशम् । अकुर्वन् विहितं कर्म शक्तः पतति तद्दिने
प्रायश्वित्तेन महता शुद्धिमाप्रोत्यनापदि । पक्षं नित्यक्रियाहानेः कर्त्ता मैत्रेय! मानवः