अवबोधि च यच्छान्तमदोषमपकल्मषम् । ऋषिरूपात्मने तस्मै विष्णो रूपाय!ते नमः
भक्षयत्यथ कल्पान्ते भूतानि यदावरितम् । त्वद्रूपं पुण्डरीकाक्ष!तस्मै कालात्मने नमः
सम्भक्ष्य सर्वभूतानि देवादीन्यविशेषतः । नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः
प्रवृत्त्या रजसो यच्च कर्मणां कारकात्मकम् । जनार्दन! नमस्तसमै त्वद्रूपाय नरात्मने
अष्टाविंशदूवधोपेतं यद्रूपं तामसं तवा । उन्मार्गगामि सर्वात्मन् तस्मै ! पश्वात्मने नमः
यज्ञाङ्गबूतं यद्रूपं जगतः सिद्धिसाधनम् । वृक्षातिदूभेदि तस्मै मुख्यात्मने नमः
तिर्यङू मानुषदेवादि व्योमशब्दादिकञ्च यत् । रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः
प्रधानबुद्धयादिमयादशेषादू यदन्यदस्मात् परमं परात्मन् । रूपं तवाद्यं न यदन्यतुल्यं तस्मै नमः कारणकारणाय
शुक्लादिदीर्घादिघनादिहीन मगोचरे यच्च विशेषणानाम् । सुद्धातिसुद्ध परमर्षिदृश्यं रूपाय तस्मै भगवन् । नताः स्मः
यन्नः शरीरेषु यदन्यदेहे ष्वशेषजन्तुष्वजमव्ययं यत् । यस्माच्च नान्यदूव्यतिरिक्तमस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै
सकलमिदमजस्य यस्य रूपं परमपदात्मवतः सनातनस्य । तमनिधनमशेषबीजभूतं प्रभुममलं प्रणताः स्म वासुदेवम्
स्तात्रस्यास्यावसाने तदे ददृशुः परमेश्वरम् । शङ्खचक्रगदापाणिं गरुडस्थं सुरा हरिम्
तमूचुः सकला देवाः प्रणिपातपुरः सरम् । प्रसीद देव!दैत्येभ्यस्त्राहीति शरणार्थिनः
त्रैलोक्यं यज्ञाभागश्व दैत्यैर्ह्रादपुरोगमैः । ह्टतं नो ब्रह्मणोऽप्याज्ञामुल्लङ्घय परमेश्वर
यद्यप्यशेषभूतस्य वयं ते च तवांशकाः । तथाप्यविद्याभेदेन भिन्नं पश्यामहे जगत्
स्ववर्णधर्माभिरता वेदमार्गानुसारिणः । न शक्यास्तेऽरयो हन्तुमस्माभिस्तपसान्विताः
तमुपायममेयात्मन्नस्माकं दातुमर्हसि । येन तानसुरान हन्तु भवेम भगवन् ! क्षमाः
इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः । तमुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान्
मायामोहोऽयमखिलान् दैत्यांस्तान्मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः
स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः । ब्रह्मणो येऽधिकारस्य देवदैत्यादिकाः सुराः
तदूगच्छत न भीः कीर्या मायामोहोऽयमग्रतः । गच्छत्वद्योपकाराय भवता भवतां सुराः
इत्युक्ताः प्रणिपत्यैनं ययुर्देवा यथागतम् । मायामोहोऽपि तैः सार्द्धं ययौ यत्र महासुराः
पराशर उवाच । तपस्यभिरतान् सोऽथ मायामोहो महासुरान् । मैत्रेय ! ददृशे गत्वा नर्मदातीरसंश्रितान्
ततो दिगम्बरो मुण्डो बर्हिपत्रधरो द्रिज । मायामोहोऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत्
हे दैत्यपतयो ! ब्रूत यदर्थं तप्यते तपः । ऐहिकं वाथ पारत्र्यं तपसः फलमिच्छथ
पारत्र्यफललाभाय तपश्वर्या महामते । अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम्
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ । अर्हध्वमेनं धर्मञ्च मुक्तिद्रारमसंवृतम्
धर्मो विमुक्तेरर्होऽयं नैतदस्मात् परः परः । अत्रैव संस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ । अर्हध्वं धर्ममेतञ्च सर्वे यूयं महाबलाः
एवं प्रकारैर्बहुभिर्युक्तिदर्शनवर्द्धितैः । मायामोहन ते देत्या वेदमार्गादपाकृताः
धर्मायैतदधर्माय सदेतन्न सदित्यपि । विमुक्तये त्विदं नैतदू विमुक्तिं सम्प्रच्छात