को नग्रः किं समाचारो नग्रसंज्ञां नरो लभेत् । नग्रस्वरूपमिच्छामि यथावद् गदितं त्वया । (श्रोतु धर्मभृता श्रेष्ठ! न ह्मस्त्यविदितं तव)
पराशर उवाच । ऋगूयजुः सामरांज्ञयं त्रयो वर्णावृतिर्द्रिज । एतामुज्झति यो मोहात् स नग्रः पातकी स्मृतः
त्रयी समस्तवर्णानां द्रिज !संवरणं यतः । नग्रो भवत्युज्झितायामतस्तस्यां न संशयः
इदञ्च श्रूयतामन्यद भीष्माय सुमहात्मने । कथयामास धर्मज्ञो वसिष्ठोऽस्मत्पितामहः
मयापि तस्य गदतः श्रुतमेतमन्हात्मनः । नग्रसम्बन्धि मैत्रेय ! यत् पृष्टोऽहमिह त्वया
देवासुरमभूदू युद्ध दिव्यमव्दं पुरा द्रिज । तस्मिन् पराजिता देवा दैत्यैर्ह्रादपुरोगमैः
क्षीरोदस्योत्तरं कूलं गत्वातप्यन्त वै तपः । विष्णोराराधनार्थाय जगुश्चैमं स्तवं तदा
आरधनाय लोकानां विष्णोरीशस्य यां गिरम् । वक्ष्यामो भगवानद्यस्तया विष्णुः प्रसीदतु
यतो भूतान्यशेषाणि प्रसूतानि महात्मनः । यस्मिश्व लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः
तथाप्यारतिविद्वसध्वस्तवीर्या भवार्थिनः । त्वां स्तोष्यामस्तवोक्तीनां याथार्थ्यनैव गोचरे
त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च । समस्तमन्तः करणं प्रधानं तत्परः पुमान्
एकं तवैतदू भूतात्मन् ! मूर्त्तामूर्त्तमयं वपुः
तत्रेश!तव यत्पूर्वं त्वन्नाभिकमलोद्भवम् । रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः
शक्रार्क-रुद्र-वस्वशिव-मरुत्सोमादिभेदवत् । वयमेयत् स्वरूपं यत् तस्मै देवात्मने नमः
दम्भप्रायमसम्बोधि तितिक्षा-दमवर्जितम् । यद्रूपं तव गोविन्द ! तस्मै दैत्यात्मने नमः
नातिज्ञानवहा यस्मिन् नाडयः स्तिमिततेजसि । शब्दादिलोभि यत्तस्मै तुब्यं यक्षात्मने नमः
क्रौर्यमायामयं घोरं यच्च रूपं तवासितम् । निशाचरात्मने तस्मै नमस्ते पूरुषोत्तम
स्वर्गस्थर्धामसद्धर्म-फलोपकरणां तव । धर्माख्यञ्च तथा रूपं नमस्तस्मै जनार्दन
हर्षप्रायमसंसर्गिगतिमद् गमनादिषु । सिद्धाख्यं तव यद्रूपं तस्मै सिद्धात्मने नमः
अतितिक्षाधनं क्रू रमुपभोगमयं हरे । द्रिजिह्व तव यद्रपूं तस्मै नागात्मने नमः
अवबोधि च यच्छान्तमदोषमपकल्मषम् । ऋषिरूपात्मने तस्मै विष्णो रूपाय!ते नमः
भक्षयत्यथ कल्पान्ते भूतानि यदावरितम् । त्वद्रूपं पुण्डरीकाक्ष!तस्मै कालात्मने नमः
सम्भक्ष्य सर्वभूतानि देवादीन्यविशेषतः । नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः
प्रवृत्त्या रजसो यच्च कर्मणां कारकात्मकम् । जनार्दन! नमस्तसमै त्वद्रूपाय नरात्मने
अष्टाविंशदूवधोपेतं यद्रूपं तामसं तवा । उन्मार्गगामि सर्वात्मन् तस्मै ! पश्वात्मने नमः
यज्ञाङ्गबूतं यद्रूपं जगतः सिद्धिसाधनम् । वृक्षातिदूभेदि तस्मै मुख्यात्मने नमः
तिर्यङू मानुषदेवादि व्योमशब्दादिकञ्च यत् । रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः
प्रधानबुद्धयादिमयादशेषादू यदन्यदस्मात् परमं परात्मन् । रूपं तवाद्यं न यदन्यतुल्यं तस्मै नमः कारणकारणाय
शुक्लादिदीर्घादिघनादिहीन मगोचरे यच्च विशेषणानाम् । सुद्धातिसुद्ध परमर्षिदृश्यं रूपाय तस्मै भगवन् । नताः स्मः
यन्नः शरीरेषु यदन्यदेहे ष्वशेषजन्तुष्वजमव्ययं यत् । यस्माच्च नान्यदूव्यतिरिक्तमस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै