यस्याश्च रोमशे जङ्घे गुल्फौ यस्यास्तथोन्नतौ । गण्डयोः कूपरौ यस्या हसंत्यास्तां न चोद्वहेत् ॥ ३,१०.
नातिरूक्षच्छविं पाडुकरजामरुणेक्षणाम् । आपीन हस्तपादां च नकन्यामुद्वहेद्बुधः ॥ ३,१०.
न वामनां नातिदीर्घां नोद्वहेत्संहतभ्रुवम् । न चाति च्छिद्रदशनां न करालमुखीं नरः ॥ ३,१०.
पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् । गृहस्थश्चोद्वहेत्कन्यां न्यायेन विधिना नृप ॥ ३,१०.
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वराक्षयौ चान्यौ पैशाचश्चाष्टमो मतः ॥ ३,१०.
एतेषां यस्य यो धर्मो वर्मस्योक्तो महर्षिभिः । कुर्वीत दारग्रहणं तेनान्यं परिवर्जयेत् ॥ ३,१०.
सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया । समुद्वहेद्ददात्येतत्सम्यगूढं महाफलम् ॥ ३,१०.
पराशार उवाच । इत्याह भगवानौर्वः सगराय महात्मने । सदाचारीन् पुरा सम्याङ् मैत्रेय! परिपृच्छते
मयाप्येतदशेषेणा कथितं भवते द्रिज । समुल्लङू ध्य सदाचारं कश्विन्नाप्रोति शोभनम्
मैत्रेय उवाच । षणढापबिद्धप्रमुखा विदिता भगवन । मया । उदक्याद्याश्व ये सर्वे नग्रामिच्छामि वेदितु म्
को नग्रः किं समाचारो नग्रसंज्ञां नरो लभेत् । नग्रस्वरूपमिच्छामि यथावद् गदितं त्वया । (श्रोतु धर्मभृता श्रेष्ठ! न ह्मस्त्यविदितं तव)
पराशर उवाच । ऋगूयजुः सामरांज्ञयं त्रयो वर्णावृतिर्द्रिज । एतामुज्झति यो मोहात् स नग्रः पातकी स्मृतः
त्रयी समस्तवर्णानां द्रिज !संवरणं यतः । नग्रो भवत्युज्झितायामतस्तस्यां न संशयः
इदञ्च श्रूयतामन्यद भीष्माय सुमहात्मने । कथयामास धर्मज्ञो वसिष्ठोऽस्मत्पितामहः
मयापि तस्य गदतः श्रुतमेतमन्हात्मनः । नग्रसम्बन्धि मैत्रेय ! यत् पृष्टोऽहमिह त्वया
देवासुरमभूदू युद्ध दिव्यमव्दं पुरा द्रिज । तस्मिन् पराजिता देवा दैत्यैर्ह्रादपुरोगमैः
क्षीरोदस्योत्तरं कूलं गत्वातप्यन्त वै तपः । विष्णोराराधनार्थाय जगुश्चैमं स्तवं तदा
आरधनाय लोकानां विष्णोरीशस्य यां गिरम् । वक्ष्यामो भगवानद्यस्तया विष्णुः प्रसीदतु
यतो भूतान्यशेषाणि प्रसूतानि महात्मनः । यस्मिश्व लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः
तथाप्यारतिविद्वसध्वस्तवीर्या भवार्थिनः । त्वां स्तोष्यामस्तवोक्तीनां याथार्थ्यनैव गोचरे
त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च । समस्तमन्तः करणं प्रधानं तत्परः पुमान्
एकं तवैतदू भूतात्मन् ! मूर्त्तामूर्त्तमयं वपुः
तत्रेश!तव यत्पूर्वं त्वन्नाभिकमलोद्भवम् । रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः
शक्रार्क-रुद्र-वस्वशिव-मरुत्सोमादिभेदवत् । वयमेयत् स्वरूपं यत् तस्मै देवात्मने नमः
दम्भप्रायमसम्बोधि तितिक्षा-दमवर्जितम् । यद्रूपं तव गोविन्द ! तस्मै दैत्यात्मने नमः
नातिज्ञानवहा यस्मिन् नाडयः स्तिमिततेजसि । शब्दादिलोभि यत्तस्मै तुब्यं यक्षात्मने नमः
क्रौर्यमायामयं घोरं यच्च रूपं तवासितम् । निशाचरात्मने तस्मै नमस्ते पूरुषोत्तम
स्वर्गस्थर्धामसद्धर्म-फलोपकरणां तव । धर्माख्यञ्च तथा रूपं नमस्तस्मै जनार्दन
हर्षप्रायमसंसर्गिगतिमद् गमनादिषु । सिद्धाख्यं तव यद्रूपं तस्मै सिद्धात्मने नमः
अतितिक्षाधनं क्रू रमुपभोगमयं हरे । द्रिजिह्व तव यद्रपूं तस्मै नागात्मने नमः