यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः । स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान्
चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि
पुत्रद्र व्यकलत्रेषु त्यक्तस्नेहो नराधिप । चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः
त्रैवर्गिकांस्त्यजेत्सर्वानारंभानवनीपते । मित्रादिषु समो मैत्रस्समस्तेष्वेव जंतुषु
जरायुजांडजादीनां वाड्मनःकायकर्मभिः । युक्तः कुर्वीत न द्रो हं सर्वसंगांश्च वर्जयेत्
एकारात्रस्थितिर्ग्रामे पंचरात्रस्थितिः पुरे । तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते
प्राणयात्रानिमित्तं च व्यंगारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्गृहान्
कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये । तांस्तु सर्वान्परित्यज्य परिव्राण्निर्ममो भवेत्
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित्
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति । विप्रस्तु भैक्ष्योपहितैर्हविर्भिश्चिताग्निकानां व्रजति स्म लोकान्
मोक्षाश्रमं यश्चरते यथोक्तं शुचिस्सुखं कल्पितबुद्धियुक्तः । अनिंधनं ज्योतिरिव प्रशांतस्स ब्रह्मलोकं श्रयते द्विजातिः
सगर उवाच कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा । पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम ॥ ३,१०.
नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः ॥ ३,१०.
और्व उवाच यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् । तदहं कथयिष्यामि शृणुष्वैकमना मम ॥ ३,१०.
जातस्य जातकर्मादिक्रियाकाण्डमशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥ ३,१०.
युग्मांस्तु प्राड्मुखान्विप्रान्भोजयेन्मनुजेश्वर । यथा तृप्तिस्तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम् ॥ ३,१०.
दध्ना युक्तैः सबदरैर्मिश्रान् पिण्डान्मुदा युतः । नान्दीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव ॥ ३,१०.
प्राजापत्येन वा सर्वमुपचारं प्रदक्षिणम् । कुर्वीत तत्तथाशेषवृद्धिकालेषु भूपते ॥ ३,१०.
ततश्च नाम कुर्वीत पितैव दशमेहनि । देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम् ॥ ३,१०.
शर्मेति ब्राह्यणस्योक्तं वर्मेति क्षत्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥ ३,१०.
नार्थहीनं न चाशस्तं नापशब्दयुतं तथा । नामङ्गल्यं जुगुप्साकं नाम कुर्यात्समाक्षरम् ॥ ३,१०.
नातिदीर्घंनातिह्रस्वं नातिगुर्वक्षरान्वितम् । सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रणवाक्षरम् ॥ ३,१०.
ततोऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि । यथोक्तविधिमाश्रित्य कुर्याद्विद्यापरिग्रहम् ॥ ३,१०.
गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् । गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम् ॥ ३,१०.
ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् । गुगोः शुश्रुषणं कुर्यात्तत्पुत्रादेरथापि वा ॥ ३,१०.
वैखानसो वापि भवेत्परिव्राडथ वेच्छया । पूर्वसंकल्पितं यादृक्तादृक्कुर्यान्नराधिप ॥ ३,१०.
वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुमःस्वयम् । नाति केशामकेशां वा नातिकृष्णां न पिङ्गलाम् ॥ ३,१०.
निसर्गतोधिकाङ्गां वा न्यूनाङ्गामपि नोद्वहेत् । नाविशुद्धां सरोमां वाकुलजां वापि रोगिणीम् ॥ ३,१०.
न दुष्टां दुष्टवाक्यां वा व्यङ्गिनीं पुतृमातृतः । न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥ ३,१०.
न घर्वरस्वरां क्षामां तथा काकस्वरां न च । नानिबन्धेक्षणां तद्वद्वृत्ताक्षीं नोद्वहेद्बुधः ॥ ३,१०.