उभे संध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तदा कुर्य्याद्गुरोरप्यभिवादनम्
स्थिते तिष्ठेद्व्रजेद्याते नीचैरासीत चासति । शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न संचरेत्
तेनैवोक्तं पठेद्वेदं नान्यचित्तः पुरस्स्थितः । अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः
अवगाहेदपः पूर्वमाचार्य्येणावगाहितः । समिज्जलादिकं चास्य काल्यं काल्यमुपानयेत्
गृहीतग्राह्यवेदश्च ततोनुज्ञामवाप्य च । गार्हस्थ्यमाविश्त्प्रोआ!ज्ञो निष्पन्नगुरुनिष्कृतिः
विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा । गृहस्थकार्य्यमखिलं कुर्य्याद्भूपाल शक्तितः
निवापेन पितॄनर्चन्यज्ञैर्देवांस्तथातिथीन् । अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम्
भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान्
बिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः । तेप्यत्रैव प्रतिष्ठंते गार्हस्थ्यं तेन वै परम्
वेदाहरणकार्य्याय तीर्थस्नानाय च प्रभो । अटंति वसुधां विप्राः पृथिवीदर्शनाय च
अनिकेता ह्यनाहारा यत्र सायंगृहाश्च ये । तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च
तेषां स्वागतदानादिवक्तव्यं मधुरं नृप । गृहागतानां दद्याच्च शयनासनभोजनम्
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति
अवज्ञानमहंकारो दंभश्चैव गृह सतः । परितापोपघातौ च पारुष्यं च न शस्यते
यस्तु सम्यक्करोत्येवं गृहस्थः परमं विधिम् । सर्वबंधविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान्
वयःपरिणतो राजन्कृतकृत्यो गृहाश्रमी । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा
पर्णमूलफलाहारः केशश्मश्रुजटाधरः । भूमिशायी भवेत्तत्र मुनिस्सर्वातिथिर्नृप
चर्मकाशकुशैः कुर्य्यात्परिधानोत्तरीयके । तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वर
देवताभ्यर्चनं होमस्सर्वाभ्यागतपूजनम् । भिक्षाबलिप्रदानं च शस्तमस्य नरेश्वर
वन्यस्नेहेन गात्राणामभ्यंगश्चास्य शस्यते । तपश्च तस्य राजेंद्र शीतोष्णादिसहिष्णुता
यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः । स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान्
चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि
पुत्रद्र व्यकलत्रेषु त्यक्तस्नेहो नराधिप । चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः
त्रैवर्गिकांस्त्यजेत्सर्वानारंभानवनीपते । मित्रादिषु समो मैत्रस्समस्तेष्वेव जंतुषु
जरायुजांडजादीनां वाड्मनःकायकर्मभिः । युक्तः कुर्वीत न द्रो हं सर्वसंगांश्च वर्जयेत्
एकारात्रस्थितिर्ग्रामे पंचरात्रस्थितिः पुरे । तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते
प्राणयात्रानिमित्तं च व्यंगारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्गृहान्
कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये । तांस्तु सर्वान्परित्यज्य परिव्राण्निर्ममो भवेत्
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित्
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति । विप्रस्तु भैक्ष्योपहितैर्हविर्भिश्चिताग्निकानां व्रजति स्म लोकान्