धाता प्रजापतिः शक्रो वह्निर्वसुगणोऽर्यमा । प्रविश्यातिथिमेते वै भुञ्जन्तेऽन्नं नरेश्वर
तस्मादतिथिपूजायां यतेत सततं नरः । स केवलमघं भुङ्क्ते यो भुङ्क्ते ह्यतिथिं विना
ततः सुवासिनीदुःखिगर्भिणीवृद्धबालकान् । भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही
अभुक्तवत्सु चैतेषु भुञ्जन् भुङ्क्ते स दुष्कृतम् । मृतश्च गत्वा नरकं श्लेष्मभुग्जायते नरः
अस्नाताशी मलं भुङ्क्ते ह्यजपी पूयशोणितम् । असंस्कृतान्नभुङ्मूत्रं बालादिप्रथमं शकृत्
अहोमी च कृमीन् भुङ्क्ते अदत्त्वा विषमश्नुते
तस्माच्छृणुष्व राजेन्द्र यथा भुञ्जीत वै गृही । भुञ्जतश्च यथा पुंसः पापबन्धो न जायते
इह चारोग्यविपुलं बलबुद्धिस्तथा नृप । भवत्यरिष्टशान्तिश्च वैरिपक्षाभिचारिणः
स्नातो यथावत् कृत्वा च देवर्षिपितृतर्पणम् । प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही
कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप । दत्त्वाऽतिथिभ्यो विप्रेभ्यो गुरुभ्यस्संश्रिताय च । पुण्यगन्धधरः शस्तमाल्यधारी नरेश्वर
नैकवस्त्रधरो नार्द्रपाणिपादो महीपते । विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः । अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः
न कुत्सिताहृतं नैव जुगुप्सापदसंस्कृतम् । दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही
प्रशस्तशुद्धपात्रे तु भुञ्जीताकुपितो द्विजः
नासन्दिसंस्थिते पात्रे नादेशे च नरेश्वर । नाकाले नातिसङ्कीर्णे दत्त्वाग्रं च नरोऽग्नये
मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप । अन्यत्र फलमूलेभ्यः शुष्कशाखादिकात् तथा
तद्वद्धारीतकेभ्यश्च गुडभक्ष्येभ्य एव च । भुञ्जीतोद्धृतसाराणि न कदापि नरेश्वर
न शेषं पुरुषोऽश्नीयादन्यत्र जगतीपते । मध्वम्बुदधिसर्पिभ्यः सक्तुभ्यश्च विवेकवान्
अश्नीयात् तन्मयो भूत्वा पूर्वं तु मधुरं रसम् । लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः
प्राग्द्रवं पुरुषोऽश्नीयान्मध्ये कठिनभोजनः । अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति
अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्नमकुत्सयन् । पञ्चग्रासं महामौनं प्राणाद्याप्यायनं हि तत्
भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखोऽपि वा । यथावत् पुनराचामेत् पाणी प्रक्षाल्य मूलतः
स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः । अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः
अग्निराप्याययेद्धातुं पार्थिवं पवनेरितः । दत्तावकाशं नभसा जरयत्यस्तु मे सुखम्
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च । भवत्येतत्परीणतं ममास्त्यव्याहतं सुखम्
प्राणापानसमानानामुदानव्यानयोस्तथा । अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम्
अगस्तिरग्निर्वडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् । सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहे
विष्णुः समस्तेन्द्रियदेहदेही वृथा न भूतो भगवान् यथैकः । सत्येन तेनात्तमशेषमन्नमारोग्यतां मे परिणाममेतु
विष्णुरत्ता तथैवान्नं परिणामश्च वै तथा । सत्येन तेन मद्भुक्तं जीर्यत्यन्नमिदं तथा
इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् । अनायासप्रदायीनि कुर्यात् कर्माण्यतन्द्रितः